________________
काव्यकल्पलतावृत्तिः परिशिष्ट 'भवादृशाश्चेदधिकुर्वते परान्निराश्रया हन्त हता मनस्विता' । सत्यामपि शक्तौ परानुपेक्षन्त इत्यर्थः । विपूर्वो द्विभेदस्तद्यथाअकर्मकत्वे विकुर्वते । सैन्धवाः साधुदान्ताः, शोधनं वल्गन्तीत्यर्थः । उदनपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्त इत्यर्थः । शब्दकर्मकन्वे यथा-क्रोष्टा विकुर्वते' स्वरान्, नानाशब्दान् जनयतीत्यर्थः । शब्दकर्मेति कि? मृदं विकरोति । नाशवर्जनं किं? विकरोत्यध्यायं, विकरोति शब्दं विनाशयतीत्यर्थः । आसां कृञ् मूलधातुवत् परोक्षायां । ततो यः कृञ्नुप्रयोज्यः, तस्मात् परोक्षव निमित्तमस्यां । मूलस्य धातो समुपेक्षयव पदं न परस्मैप्रमुखं । त्रिसन्ध्यं यथा-ईक्षाञ्चके, ऊहाञ्चक्रे । अफलमथात्मनेपदि धातोरात्मनेपदं । बिभराञ्चकार, जागराञ्चकार । अत्र परस्मैपदि धातोः परस्मैपदमेव बिभराञ्चकार, बिभराञ्चके । अत्रोभयपदि धातोरुभयपदमेव ॥छ।।
पूजोक्षेपोपनयनज्ञानप्रभृतिविगणनव्ययेषु णीज् । कर्तृस्थामूर्तकर्मकश्च । पूजोक्षेपोपनयनज्ञानप्रभृतिविगणनधर्मदाने नीः । कर्तृ श्चामूर्ता प्राप्त्यर्थव्याप्योऽपि च रुचादिः । पूजा सन्मानः । नयते विद्वान् शास्त्रार्थे, शास्त्रार्थतत्त्वं युक्तिभिः स्थिरीकृत्य शिष्टब द्धि प्रापयतीत्यर्थः । युक्तिभिः स्थापिता: शास्त्रार्थाः पूजिताः स्युः । उत्क्षेप वं नयनं शिशमदानयते । उपनयनमाचार्यक्रिया बटुमुपनयते । स्वयमाचार्यो भवनव्रतारोपणाय अध्ययनाय वा बटुं स्वसमीपे आनयति । ज्ञानं प्रमेयनिश्चयः । नयते विद्वान् तत्त्वार्थे तत्त्वं, सम्यक् जानातीत्यर्थः । भृतिः कर्ममूल्यं कर्मकरानुपनयते, मूल्यदानेन हृष्टान् करोतीत्यर्थः । विगणनं ऋणादिशोधनं, मद्राः करं विनयन्ते । राजदेयं भागं कर्षका विशोधयन्तीत्यर्थः । धर्मदानं धर्मार्थ धनव्ययः, शतं सहस्रं विजयते, धर्माय ददातीत्यर्थः । कर्तस्थे शमं विनयन्ते शमयंतीत्यर्थः । विनयन्ते स्म विद्योद्यामधभिविजयश्रमं । कर्तृस्थेति किं? चैत्रो मैत्रस्य मन्यु विनयति । अमूर्तमिति किं ? गडं विनयति । कर्मेति किं? बुद्धया विनयति । अप्राप्त्यर्थव्याप्त्या इति कि? 'शिवमोपयिकी गरीयसीं फलनिष्यत्तिमदूषितायतिम् । विगणय्य नयन्ति पौरुषं विहिजितक्रोधरया जिगीषवः ।" अत्र प्रापणार्थो नयतिरित्यात्मनेपदं । एवमन्यत्रापि प्रापणान्नयतेरात्मनेपदं न भवति ॥छ।।
बत्त्यत्साहतायनेश्च कम् । परोपाभ्यां आडो ज्योतिरुद्गमे, वेः पादाभ्यां गतिः । श्लाघनार्थ, प्रोपाभ्यामारम्भे, अनुपसर्गो वा । अप्रतिबन्धोत्साहस्फीतत्वे केवलः परोपाच्च । आङो ज्योतिषि । वे: श्लाघायां हिंसादिकगतेश्च ।(१) प्रोपादारम्भे क्रमधातुर्नित्यमनुपसर्गो वा । षड्भिर्भेदैरेवंबुधैरभाण्यात्मनेपदभाक् (२) प्रवृत्तिरप्रतिबन्धो जीवनं च । अप्रतिबन्धोऽस्खलनं । शास्त्रेऽस्य क्रमते बुद्धिः न स्खलति । चिसया कृत्रिमपत्रपंक्तौ उत्साहेपीदं घटते । सर्गउत्साहे, अध्ययनाय क्रमते उत्सहते, तायनं स्फीतता, न्याचिनः श्रियः क्रमन्ते स्फीतीभवन्ति । एष्वेवार्थेष परोपाभ्यां यथा-पराक्रमते, उपक्रमते, न स्खलति, उत्सहते, स्फीतीभवन्तीत्यर्थः । आङो ज्योतिषि यथा-आक्रमते चन्द्रः सूर्यो वा, उदयते इत्यर्थः । यावत् प्रतापनिधिराक्रमते ननभानुः । ज्योतिरिति कि? धूम आक्रमति । कथं नभः समाक्रामति नष्टवतानास्थितैकचक्रेण रथेन भास्करः । सत्यं प्राप्त्यर्थोऽत्र विवक्षितो न तूद्गम. । वेगाति श्लाघते यथा-साधु विक्रमते हंसो गजो वा । अन्यत्र गजेन विक्रामति । प्रापाभ्यां यथा-प्रक्रमते उपक्रमते भोक्तं, अन्यत्र प्रकामं यातीत्यर्थः। अनपसर्गो वा क्रमते कामति ॥छ।।
निह्नवे ज्ञो अकर्मकश्च । सकर्मा फलवत्यनुपसर्गश्च । संप्रतिभ्यामस्मतौ अननोः समन्तात् ज्ञा धातुः सोपसर्गः सन् निह्नवेऽर्थे सकर्मकः । सम्प्रतेरस्मतावेव२ । मतनश्च परे सनि ३ सकर्मानपसर्गश्च फलवत्त्वे विवक्ष कर्मा च। ५ पञ्चधाज्ञात्मने वा तृतीयान्न नांगीकपदी २ । क्रमेणोदाहरणानि-निह्नवे शतमपजानीते संप्र. शतं सहस्रं वा सञ्जानीते, प्रतिजानीते च । शतेन संजानीते वा, समो वा स्मृतौ । वा ततीयाऽत्र नाङ्गीकरोतीत्यर्थः । स्मृतौ तु मातुः संजानाति, अननुश्च । धर्म जिज्ञासते । अतीतसुधर्ममनुजिज्ञासति । कथमौषधस्यान जिज्ञासते ? सत्यं अकर्मकत्वादात्मनेपदिनः सतः पूर्ववत्सनन्तादित्यात्मनेपदं सकर्मेति गां जानीते । अनपसर्गादिति कि? प्रजानाति । फलं तदिति किं ? परस्य गां जानाति, फलविवक्षायां तु स्याद्यथा ।
देवीं वाचमुपासते हि बहवः, सारं तु सारस्वतम् ।
जानीते नितरामसी गुरुकुल क्लिष्टो मुरारिः कविः । १. विकुरुते ला.प. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org