________________
काव्यकल्पलतावृत्ति: परिशिष्ट
त्रयोविंशत्यक्षरम् । रौ नरौ नरनरालघुगुरूरथो यथा भवति चित्रकं तदा-- कृष्णचित्रक समप्रभेऽभवदसौ सदा स्फूरति मेदिनीपते त्वद्गुणाः प्रगुणयन्त्यनन्तगुणतामनन्तसमविक्रमक्रमः । नेदृशं यदि तदा कुतस्त्रिभुवने जनाः प्रतिदिनं निजेच्छ्या तान् स्वकण्ठतटमण्डनानि जनयन्ति दधति नो नतां पुनः ।।९८।। चतुर्विंशत्यक्षरम् । प्रोक्ताऽसौ विबुधैस्तु विभ्रमगतिर्मासौजसी तौभरी च तदा यदा।-- यद्यान्ती पथि सा सविभ्रमगतिया॑वृत्तवृन्तारविन्दमुखं व्यावृत्त्या सकृदीक्ष्यते स्म नयनप्रान्तेन कर्णान्तरप्रसृतेतमाम् । तत् किं विस्मृतिमेति मे पुनरहं पीयषपूरैरिव स्नपितस्तदा सम्प्रत्युल्बणदाविवह्निभिरिवोत्तप्तेऽस्मि' तत्कारणं किमु कथ्यताम् ।।९९।। पञ्चविंशत्यक्षरम् । क्रौञ्चपदेयं बाण रबशैलर्धमसभननननगुरुपरिकलिता । चक्रचकोर क्रौंचपदास्मिन् विकचकमलवनविलसदलिकुलानिर्झरिणीयम् चित्तहरास्ते बहुलफलकुसुममपि विपिनम् । एष गिरिश्चेद्वेषि चमूभिर्दुरधिगम इति भयरहितमिह तमिह स्थेयममेयश्रेयसि पत्नीरिपुरिति निगदति नप तव नगागः ।।१०।।
षड्विशत्यक्षरम् । अष्टेशानश्चेद्विश्रामो ममननननरसलघुगाभुजंगविजम्भितम्दिव्यास्त्रेभ्यो जातं जातः प्रसमरदिनकरकिरणस्तमिस्रकदम्बकम राहव्यूहैर्भास्वद्वन्दं दनुतनुभवरिपुविभुभिर्विधं तुदवल्गितम् । वज्रापातैः शैलवातं समुदितगरुडसमुदयैर्भुजङ्गविजृम्भितम मोधीकृल्यामोघः शस्त्रः दशरथनरपतितनयो जघान दशाननम् ।।१।।।।।। अथार्द्धसमं छन्दः आख्यानकीताद्विषमे तजौगौ समेजजौ तौ जोगयुगं यदि स्यात् । नैव प्रियोऽधिक्रियतेऽधुना यदि मनस्विनी मानविमाननानाम् । आख्यानकीयं सखि चन्द्रलेखा दिशं हरेरंकुरितां करोति ॥२॥ आख्यानकी वार्ताहारिकाः । जती जगौ गो विषमे समेतौ योगावियं स्याद्विपरीतपूर्वा । बभव द्वैवज्ञततिक्तवारेराख्यानकी संयति यो जयस्य । कृता त्वया सा विपरीतवृत्तिः स्वीकूर्वता तद्विजयं जिनेश ।।३।। एतयोरुपजात्यं तगितत्वोऽपि विशेषसंज्ञार्थमिहपाठः । विषमे ससजा गुरुः समे सभरालौ तु तदा प्रबोधिता ॥४॥
१. तप्तोऽसि-ला.प.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org