________________
काव्यकल्पलतावृत्तिः परिशिष्ट
रसरश्वैश्छिन्ना यमनततगागश्च शोभा श्रुताऽसौ-- क्षतप्रान्तप्रोताहितनृपतिशिरोमुण्डनं खड्गमुग्रं दधानः खट्वाङ्ग मणिचितमुकुटाचिश्छटाभिर्जटालः । समन्तात् तन्वानस्त्रिभुवनभवनप्लाविनी कीर्तिगङ्गा महीनश्रीपीनः समितिनरपतिः शम्भुशोभा बभार ॥९२।। अश्वैः षडिविरामो मरभनततगावसौ चित्रमाला-- निर्लक्ष्मेन्दुस्तदंके कमलयुगलं मौक्तिकां नि (प्र) प्रवालं राहुस्तारावगूढ: सरसि च युगां रत्नचित्राग्रपत्रम् । शैलद्वन्द्वं तरङ्गत्रितयनिलयं न्यग्मुखोच्छौ च रम्भा स्तम्भावुन्मीलमब्जद्वयमपि ततः काऽप्यसौ चित्रमाला ॥९३।। एकविंशत्यक्षरम् विज्ञेया श्र (स्र ) ग्धरेयं मरभतनययया वाहवाहैर्य तिश्चेतकान्ता कान्तारराजी मृदुलकिशलया ताम्रक म्राधरोष्ठी दोलाव्यालोलकर्णा प्रसृमरमधुपश्रेणिचञ्चत्कटाक्षा । विष्वग् रङ्गत्परागस्मितवसुमन (सः) स्रग्धरालिङ्गितेयम् । काम्या याम्यानि लेप्ता जनिजनितवपुः कम्पसम्पत्परीता ।।९४।। सप्तर्षिभिविरामस्तरभनजभराः श्रुता नु कथा गति:-- आस्यं कृतेन्दुहास्यं स्मितकमलकालाविलोपकरौ करौ विक्षोभितेभकुम्भं द्वयमुरसिजयोः श्रितणजये दृशौ । पीयषदोषदोक्तिर्विदलितवरला विलासकथा गति: कान्तिः प्रतप्तकातस्चरमदहरणोत्कटा कुटिलभ्रवः ।।९५।। नज भजजाजरौ यदि तदा गदिता खलु सिद्धिरेव सा-- जिनपतिपूजको यदि यदि प्रथितार्हतसप्ततत्त्ववित् सुगुरुपदाश्रितो यदि यदि प्रसृताशयशुद्धवासनः । महितमहाव्रतो यदि यदि स्वमहः समपासनामयो जितविषयेन्द्रियो यदि तदा पुरतस्तव सिद्धिरागता ।।९६।। द्वाविंशत्यक्षरम् । वसुभिर्वाहैः सतीभो नसरसरगुरवः स्यान्महास्रग्धरेयम् ।-- परखड़गोत्क्षिप्तशीर्षप्रकटितपटहंकारवक्त्रबन्धे (वक्त्रे प्रबन्धे?) यानेन युध्द्वा क्षितिपतिरपद् वीरकोटीररत्नम् । प्रथम तस्मिन् वरार्थे त्रिदिवमगदश: संप्रपातात्र पश्चात् विजयार्थं निर्जयाणां सुरकुसुममहा स्रग्धराधीश्वरेषु ।।९७।।
१. योऽनेन-पा.प., दे.प. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org