SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावत्ति: परिशिष्ट एकोनविंशत्यक्षरम् । आदित्यैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् ।तावच्चित्रकचित्रविक्रमचमत्कारं चिरं चञ्चये स्तावत्सूकरसूकरीततिपरीरम्भाय संरम्भयेः । तावत् प्लावयधारणेश्वरमदश्रावैररण्यावनी यावद्वः प्रतिकूलमत्र न बने शार्दूलविक्रीडितम् ।।८६।। रमैः षड्भिर्यामो नसरयुगगा मेघविस्फूजिताऽसौपुरस्तात पौरस्त्यः स्फूरितपवनो यन्नतवोल्लासकारी सुवर्णाभाशम्भोदिशि तडिदसौ मेघविस्फूजिता यत् । ततो भीमग्रीष्मद्यमणिकिरणापातिसन्तापिताया: पयःप्लावैः पृथव्याः प्रथयसितमां तापशान्तिं समन्तात् ।।८७।। यमौ त्सो जौ गाश्चेद्रसरसयतिस्तदा मकरन्दिकाप्रभूताविर्भूताद्भुतपरिमलप्रलोभितचेतसा रसादभ्रामं भ्रामं किमपि परितो मधुव्रत माधवीम् । त्वया मन्दं २ मधुरमदुलं तथा लपितं यथा परीरंभारम्भे समभवदियं श्रवन्मकरन्दिका ।।८८॥ रसतच्छिन्ना यो मनसततगा छायेयमाभाषिताप्रसुनं माऽस्त्वस्मिन् धृतकृमिकुलं स्वाद्यं च माऽभूत् फलं प्रगल्भावल्लार्थे भजति भवि यत्पत्रयवलीपात्रताम् । वयं तस्य वमो वटविपिनच्छायव दिव्यं फलं तपत्तों या तापं नुदति शिशिरे स्फीतं शीतं श्रिते ।।८९।। विशत्यक्षरम् । विधामो वाहवाहैर्धमरमनयतललागोंऽते सुवदनां । --- यावन्नालोकते मां धृतरणरणका तावद्भवति या ज्यालोके स्मरनेत्रोत्पलदलनयना दग्भ्यां पिबति या । एकान्ते काममुत्पीडितकुचयुगलं श्लिष्यति च या सा ते च स्वान्तदेशादवतरति कुतः सेयं सुवदना ।।९।। सभरान्मौ द्यलयास्त्रयोदश यतौ मत्तेभविक्रीडितम । परभभृद्गुरुवाहिनीषु परितः प्रोन्मूलयन् लीलया बरवीराननपद्मकाननवती: पद्मालयाः केलिभः । पुलिनोड्डीनशिलीमुखव्यतिकरखत्कराडम्बरौ नरनाथ: प्रततानदानविकटो मत्तेभविक्रीडितम् ।।९१।। १. 'पल्लवोल्लासकारी' ला.प., दे.प., पा.प.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy