SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावत्तिः परिशिष्ट परिकीर्तित केकिरवं सयौ स्यौ-- नियतं जने सक्रियते सनाथः सकलैरपि न्यत्क्रियते त्वनाथः । अमृतं घनतौं घटितप्रियाणां विरहस्पणा केकिरवं विपंधिक ॥३४॥ त्रयोदशाक्षरम् । त्रिच्छेदे मनजरगैः प्रहर्षणीयम्---- त्वन्मतिर्जननयनप्रहर्ष (षिणीयं त्वद्रोचिः सुरुचिचकोरचक्रहृद्या। रम्यन्ते: परमपि किन्तु निन्द्यमेकं यत्प्राणान् हरसि विधो वियोगिनीनाम् ।।३।। जती जसौ गो भवति मजुभाषिणी । मुधा मृदूक्तिरुब्धमाभजत्यरण्येषु कुसुमान्तराण्यपि । इयं त्वदेकाश्रयलया समुज्ज्वला मरालमालासजलमजुभाषिणी ।।३६।। सजसाजगौ यदि तदानुनन्दिनी कनकप्रभा, जया सुमंगलीति वा केचिदाहः मनीवतीति भरत: भवतवदत्तजलविन्दुनन्दिनी गलिताञ्चले चलति चातकावलिः । यदियं तुषारतरा न राजते तव तेन तोयधरा तोयधारणम् ।।३७।। जससा जगौ यदि तदा कुटजं स्यात्, भ्रमर इत्यन्य:-- परिशीलयन्त्वलिकुलानि शिलिन्ध्र कुटजं कदम्बकमुरण्डरवति ।। घनसारसौरभभराणि न यावत् कलयन्ति जातिकुसुमानि विकाश (स) म् ।।३८।। गदितं सुदन्तं सयसाजी यदा--- वदने सुदत्या: स्फुटतां प्रपेदिरे प्रकृता सुदन्ता न सखा कथास्वपि । तदसीमसंशीलितशीलनिर्मला जनतोषदग्दोषभयोभिता इव ।।३९।। यमौ रोगः ख्याता षड्यतिश्चन्द्रिणीयं-- चकोराणां चक्रः सर्वतश्चय॑माणा गणः स्वर्गस्त्रीणां स्वगिरोगीयमानाः । अपि श्यामाः कामं यामिनीभूमिभर्भिवत्कीतिः सान्द्रा चन्द्रिणी का न चक्रे ।।४।। नमजजगभाग्भ्य: परिकीर्तित:---- गलितसकलेन्द्रियार्थकदर्थन: कलित: परमस्वरूपनिरूपणः। समुपचितचिन्महश्चयः संश्रय: शिवसुखमयो लयः शमिनामपि ।।४१।। स्तो जसोगः स्यान्मत्तमयरं यदि वेदैः।-- मेघं मत्वोन्नत्यचलं चपलेशं विश्वोत्तंसमानसमीय: किल हंसाः । मित्रोद्रेकान् मत्तमयूरध्वनिपूरं कुर्वन् गर्वान्नृत्यसि यत् त्वं तदतत्त्वम् ।।४२।। ननरयगयुता न चन्द्रिका ज्ञेया-- रिपुनरपतिनायकाननाब्जश्रीकण्ठहरणवितन्द्र मेदिनीचन्द्रः । प्रभवति तव देव चन्द्रिका सान्द्रीकृतसुकृतिचकोरसम्मदा कीर्तिः ।।४३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy