SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट मौ यो चेद्बाणविश्वदेवी मताऽसौ। चन्द्रकान्तेत्यन्ये । त्वन्मूतिर्देव स्फूर्तिवैश्च देवी त्वत्कान्त्युल्लास: कल्पिताशाप्रकाशः । त्वदृष्टिः पूषन् प्राणिपुष्टिस्तवस्ते विश्वो व्यापारः कृ (क्ल? )प्तविश्वोपकारः ।।२५।। झभी स्मौ वेदैर्जलधरमाख्यातः। कान्तोत्पीडेत्यन्ये । प्राणोत्था जलधरमाला व्याप्त व्योमालोक्य प्रणुदति यावत् तावत् । पान्थः प्राप्तो दढपरिरम्भेणैतावत् कण्ठप्राप्तो च्छतछत तेने स्वस्थान् ।।२६।। नभरा यदि तदा प्रियंवदा । मत्तकोकिलेत्यन्ये । निरुपमावयवर्चाङ्गसाडिगभूत तरुणिमोमि समदानरागिनी । चतुरतोच्चयपदं प्रियंमा' तमोरुसुकृतैरवाप्यते ॥२७॥ निगदिता नभयजः केलहंसाद्रुतपदा, मुखर चेत्यन्ये जलधरात् परमहः कलहंसा गुरुसरः परिसरत्कलहंसा। शरदभूदिह मदोत्कलहंसा मदयते न तनुते कलहंसा ॥२८।। संगता स्रग्विणीरैश्चतुभिर्मता, पद्मिनीति भरतः । स्मेरमन्दारधिक्कारकारिप्रभा भूपतीन्दोर्भवत्कीर्तयोऽकल्पयन् । सर्वदैवोपकण्ठं लुठन्त्यो दिश: स्रग्विणीर्यततस्ता स्त्वदेकाश्रयाः॥२९।। भी ज्ञौ यदा तु ललिता भवेत्तदा । त्वं हंसपक्षयुगले समुज्ज्वलो वाग्मञ्जुला च ललिता च ते गतिः । तत् काञ्चनीयकमलोच्चयाञ्चिते वासस्ततवोचिततमोऽस्तु मानसे ॥३०॥ रसैर्जसजसाजलोद्धतगतिः यदीयबलतो दधः त्वमुदयं तनोषि तटिनीतटान्तदलताम् । घनं स न घनो घनोऽपि भविता न ते तचिता जलोद्धदगतिः ।।३१।। प्रमुदितवदना तु नान्नी ररो, चञ्चलाक्षीत्यन्ये, गौरीत्यपरे तरलितनयनत्रिभागेन मां प्रमदितवदना यदा सैक्षत । किमभवममृतोमिमग्नस्तदा किमु शिवसम्पदसम्पदाद्वैतगः ॥३२।। प्रमिताक्षरा सगणतो जसः संसौचित्रेयम्--- वचनप्रपञ्चरचने चतुराः समदं वदन्ति बहुशास्त्रविदः । कृतिनां पुन: परमतत्त्वमयी प्रतिताक्षरा क्षरति वागमृतम् ।।३३॥ १. 'वदाप्रिय'-दे.प., पा.प. २। २. 'वेत्यन्ये'-पा. प. १, ला.प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy