________________
काव्यकल्पलतावृत्तिः परिशिष्ट
नैकस्य सदेहमधीरतराः प्राणा प्रिय यान्तु समंत्वयकाः ।।१८।। स्तो ल्लौग्वेदै भ्रमरविलसितम् जात्या जातं कपित्थमपि भवतो यद्यभ्रान्तं भ्रमरविलसितम् । तत्ते चित्ते न किमपि नलिनी नेयं मल्ली न बकुलावलिका ॥१९।।
द्वादशाक्षरम्--
ख्यातेन्द्रवंशजाततजैरसंयुतः । संरम्भिणः सात्यकिना रणाय विच्छेदभूरिश्रवसो भवान्भुजम् । कि सोमवंशानुगणं तदा तत् किं चन्द्रवंशानुगणं कपिध्वजः ।।२०।। वदन्ति वंशस्थमिदं जती जरौ। वसन्तमञ्जरी अभ्रवंशा वेत्यन्ये । न संक्रमस्य स्खलनं तथोच्चकैः गतिः स्ववंशस्थगुणानुरोधतः । दधासि नाध: पतनाय विभ्रमं भवस्य तत्त्वं भुवि वंशपुत्रिका ।।२१।। द्रुतविलम्बितमाह नभी भरो। हरिणप्लुतमिति भरतः । द्रुतविलम्बितमध्यमनामभृत् मुरजम लगुञ्जलयोजितम्। उचितसञ्चितहस्तकचारिता तनुगतिर्ननु नृत्यति नर्तकी ।।२२।। इह तोटकमम्बु धिसः प्रथितम् । मात्रासमकमिदम् । जनजीवनदाननिदानजले जलदेऽभ्युदिते समुदीह शिखिन् । मधुरध्वनिभिर्भुवनं मदयनमितोटकलापकलाकलितः ।।२३।। चतुभिर्यकार र्भुजङ्गप्रयातम् । अप्रमेयेति भरतः । परप्राणनिर्याणगर्जत्प्रमाणा तवासी कराला सहालाहलेयम् । भुजङ्गप्रयातं च जिह्वप्रयातं हताशोद्भवस्ते भयायैव भूमौ ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org