________________
काव्यकल्पलतावृत्तिः परिशिष्ट
कीर्तिः केतककांतास्य स्मेरकरवसुन्दरा । मल्लिका कुसुमश्रेष्ठा सुरभीकुरुते जगत् ॥ प्रातर्जपासुमप्रायो जाग्रबन्धूकबन्धुरः । विद्र मप्रबलो व्योमतरोः पल्लववद्रविः ॥ हरिद्राभङ्गचङ्गश्रीः चञ्चच्चम्पकचारुकृत् । सुहिरण्यवरेण्यन्ते वपुर्वणिनि वर्ण्यते ।। स्फूर्जद्वैडूर्यवर्यश्रीः सज्जकज्जलमञ्जुलः । गाढं गर्जिति गुजानप्राग्यः प्रावृषि वारिदः ।। चित्तभूचापचारुश्रि (श्रीः) भ्रूयुगं भाति सुभ्रवः । कुचौ च कुरुतः प्रीति कुंभिकुम्भशुभावुभौ ॥
एवमन्येऽपि ।
अथ वर्ण्यतुल्यपदार्थपुरःस्थबन्ध्वर्थपदानि विशेषणानि । यत्कीर्तिपूरः कर्पूरक्षोदसोदरतां दधौ । प्रभा प्रभापतेर्भाति प्रातर्बन्धूकवान्धषी ॥ द्विषां षड्जोऽस्य संहर्ता यमबाहुसहोदरः । मुग्धयामध्यमो भाति सिंहोदरसहोदरः ।। एवमन्यानि वर्ण्यतुल्यपुर:स्थचौरार्थपदानि विशेषणानि । गङ्गागौरप्रभाचौरः फणीशद्युतितस्करः । शशांकच्छविलुण्टाकस्तद्यशोराशिराबभौ ।। वर्ण्यतुल्यपुरस्थिरिष्वर्थपदानि विशेषणानि । ऊर्वाग्निप्रत्यवस्थानादावपावकशात्रवः । खररश्मिरिपुःक्ष्मापप्रतापस्तव खेलति ।। एवमन्यानि वर्ण्यतुल्यपुरःस्थसूहदर्थपदानि विशेषणानि ।
तुषारांशुः सखीकीर्ति: खररश्मिसुहृन्महः । श्राद्धदेव वयस्योऽसि तस्योर्वी भर्तुराबभौ ।।
एतान्यसमासेनापि । तद्यथा
मित्र प्रतापो मित्रस्य यशः शशभृतः सुहृत् । कड्ग:क्षोणिपतेस्तस्य कृतान्तस्य सखाऽभवत् ।। एकस्मिन्नपि वर्षे पृथक् तुल्यपदार्थेभ्यो प्रयोजितैरेभिश्चार्वादिपदैविशेषणानि स्युर्यथा-'भवद्यशोभरो भाती'त्यत्र श्लोकद्वये ॥छ।।
युतार्थाः समन्विताद्याः ।
शोणश्रीत्यादि--अत्र पूर्वांहृिद्वये वर्णाकारविशेषणरूपे वर्णाकारपुरःस्थात् श्रीशब्दो लक्ष्मीशदात् संयुतसमन्वितशब्दो तृतीयां हावाधेयविशेषणरूपे त्वसमासे, तच्चतुर्थां ह्रावाधारविशेषणरूपकेवलाधेयात् ॥छ।
श्यामलेत्यादि-अत्र पूर्वाह्रौ समासेन गुणपुरःस्थद्युतिशब्दाद्विभ्राजी, द्वितीयांह्रौ केवलगुणात् समासेन, ततीयांह्रोवसमासेन ।।छ।।
तुल्यादमी--अमी पूर्वार्दोक्ताः । युत भ्राजिप्रमुखा यथा-चन्द्रश्रीसंयुतेत्यत्र श्लोके । तुल्यात् सदृगों यथा-- कैलाश (स) सदृशं रेजे ॥छ।।
तुल्या धिष्णु मुख्या: यथा--'विष्णुशंखांशुजिष्णुभं, इत्यादिपादत्रये । तुल्यात् पूर्वजितादयो यथा--'जितपार्वणशीतांशु' श्लोके इत्यस्मिन्ननुष्टुप्शासने । प्रकाशितया विशेषणशिक्षया, सर्वेषु पद्धेषु गद्येषु वा विशेषणानि विधेयानि ।।छ।।
इति श्रीवायडगच्छीयश्रीजिनदत्तसूरिशिष्य पण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतावृत्तिविवेचने परिमलनाम्नि अनुष्टुप्शासनस्तबकोल्लासी छन्दोविशेषणप्रकाशक : प्रथमः प्रसरः ॥छ।। १६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org