SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति: परिशिष्ट प्रीतिदस्फीतिपीतश्री: पीतस्फीतप्रभाकरः ।अतिस्फीतस्फुरत् पीतकान्तिप्रीतमहीतलः ।। कम्रकद्रकलासान्द्रः कडारस्फारतारदृक् । हारिहारिद्रसान्द्रश्री: कपिशच्छविपेशल: ।। रङ्गत् पिङ्गप्रभाचङ्गो हरिहारितरप्रभः । पीतवर्णः । अदभ्रबभ्रुभावार्जी पिञ्जरद्युतिपिञ्जरः । सारसारङ्गरुक्सङ्गः शबलच्छविमण्डलः । खेलत्कल्माषरुक् पोषो धूमरप्रमरद्युतिः । धूम्रदीधितिकमश्रीडूंमलोद्धररुग्वरः ।। मिश्रवर्णः अथाकारैविशेषणानि-- अजस्रचतुरस्रथिचतुस्कोणतयाञ्चितम् । चतुरस्रं (च) विदुषां निस्तुलत्वेन मञ्जुलम् ।। अवत्तवृत्तताशोभं मण्डलत्वेन मण्डितम् ॥२।। वृत्तम् अजस्रं त्र्यस्रतामिश्रं () त्रिकोणत्वाङिकताकृतिः । त्रिकोणम् । अनर्थ्य दीर्धताघ्रातमया तत्त्वेन सत्तमम् । अलं प्रलम्बतालम्बि वामावामनतान्वितम् ॥ दीर्घ ४ हृस्वत्वभास्वराभोग लघुभावविभावितम् । कमनीयकामनीयं श्रिभङ्गरत्वेन बन्धुरम् ।। वक्र ६ ऋजुतामञ्जुलच्छायं सरलत्वेन शालितम् । प्रोल्लासि प्रांशुतोभासि चञ्चदुच्चतयाञ्चितम् । प्रसन्नमुन्नतत्त्वेन चङ्गतुङ्गत्वसङ्गतम् । उच्च ८ नीचत्वेनांचिताकार मंथरप्रथितस्थितिः । बामवामनताधाम सर्वतः स्वर्वताडिकतम् । नीचं ९ विस्तीर्णतासमाकीर्ण विशालत्वन शालितम् । प्रथितं पथलत्वेन विपूलत्वेन मञ्जुलम् ।। पृथुल १० धृतसम्बाधताबन्धं संकटत्वे कुटुम्बितम् । संकट ११ मत्स्थूलतानुकूलत्वपीनत्वादीनदेहभृत् । अतीव पीवराकार पीवरत्वेन समन्वितम् ॥१२॥ तनुत्वे तनुताकारी क्षुद्रतालङ्कृताकृतिः । भृशं कृशतया शोभि क्षुद्रत्वेन विभूषितम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy