________________
काव्यकल्पलतावृत्तिः परिशिष्ट पादान्ते इत्यादि-कतिपयेष्विन्द्रवज्रावसन्ततिलकादिछन्दस्सु पादान्ते लक्षणोक्तगुरोः स्थाने लघुरपि प्रयोज्यते । तस्य च लघोगुरुत्वं प्रतिपाद्यते । वंशस्थादिषु पुनः पादान्ते गुरुस्थाने प्रयोजितलघोर्गत्वं न स्यात् । यदाह---
वंशस्थादिचरणान्तनिवेशितस्य गत्वं लघोर्न हि तथा थति शर्मदायि ।
थोतूर्वसन्ततिलकादिपदान्तवति लोगत्वमत्र विहितं विवधैर्यथावत् ॥छ।।
विशिष्टोऽर्थो वर्णाकारेत्यादि-वर्णेनेत्यादिष्वेक पदार्थमाश्रित्यैकवचनम् सर्वपदार्थापेक्षया तु बहत्वं ज्ञेयम् । अथ वर्णे विषमपादसमापादोभयपादगतानि विशेषणानि कान्यपि लिख्यन्ते यथा-- गौरदीधिति गौरव्यो गौरदीधितिगौरवः । गौरश्री गौरवप्रत्तपौरचित्रचमत्कृतिः ।।
चेतः प्रियश्वेतरुचा श्वेतश्रीश्वेतसः प्रियः । गौरश्री गौरवप्रत्तपौरचित्रचमत् कृति : ।। चेतः प्रियश्वेतरुचा श्वेतश्रीश्वेतसः प्रियः । श्वेतरोचिश्चयश्वतश्चमत्कारस्य लक्षणम् ।। सितज्योतिः स्मितच्छायः सितश्रीविस्मितप्रजः । उल्लासितसितद्योतिर्योतिताखिलदिङमखः ।। अभ्रादभ्रप्रभाशोभी भूरिशुभ्रांशुभासुरः । अदभ्रस्वभ्रसंशोभि प्रभाविभ्रमसम्भृतः ॥ विष्वग्लक्ष्यवलक्षश्रीर्धवलप्रबलद्युतिः । स्फूर्जदर्जुनवर्याशुविहारिहरिणप्रभुः ।। चण्डपाण्डुररुग्दण्डः पाण्डुप्रोद्दण्डदीधितिः । अवदातद्युतिवाताः पाण्डुरप्रवरच्छविः ।। श्वेतवर्णः ॥छ।।
अरुणाऽनणुरुक्श्रेणीः किरणैररुणैर्वृतः । अरुणानणुविस्तीर्णकिरणाकीर्णकायभृत् ।। शोररुक् पूर्णदिक्कोणः पूर्वादिक्कोणशोणरुक् । शोणानणु समुग्दीर्णविस्तीर्णकिरणोत्करः ।। रक्तव्यक्तविभायुक्तो रक्तप्रव्यक्तकान्तिभृत् । अतिव्यक्तस्फुरद्रक्तरुचि: कविचयाञ्चितः ।। माञ्जिष्ठरुगगरिष्ठश्री: पाटलद्युतिपाटलः । ताम्रक म्रतरच्छायो रोहिलोहितदीधितिः ।। रक्तः ॥छ।। स्मितासितद्युतिस्यूतः सितेतरवरच्छविः । असितद्युतिसन्तानभासमानशरीरभाक् । शितिद्युतिततिस्फीतः शितिदीधितिविस्तृतिः । अम्बराडम्बरालम्बि शितिद्युतिकदम्बकः ।। कृष्णरोचिष्णुरोचिश्री: कालप्रोत्तालकांतिभृत् । प्रकामश्यामताधामश्यामलद्युतिमण्डलः ॥ चञ्चन्मेचकरोचिश्रीः प्रकामं रामधामभृत् । उन्मीलन्नीलरुन्मीलः पलाशच्छविपेणलः ।। हरितस्फुरितच्छाया मनोहारि स्फुरत्प्रभः । कृष्णनीलौ ।।छ।। रङ्गत् पिङ्गलरङ्गश्रीः पिङ्गलद्युतिमण्डलः । रङ्गत् पिङ्गलतुङ्गत्विट् तरङ्गितदिगन्तरः ।। अङ्गसङ्गिपिशङ्गश्रीः पिशङ्गत्विट्तरङ्गितः । रङ्गत्तुङ्गपिशङ्गत्विट् चङ्गिमाचुम्बिताम्बरत्विः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org