________________
काव्यकल्पलतावृत्तिः परिशिष्ट
जातिपक्षे रविपुला यथा--
___ वधूभिः पीनस्तनीभिः तूलीभिः कुडकुमेन च। कालागुरुधूपधूमैहेमन्ते जयति स्मरः ।। व्यक्तिपक्षे--
महाकवि कालिदासं वन्दे वाग्देवतागरुम् । यज्ज्ञाने विश्वमाभाति दर्पणे प्रतिबिम्बवत् ।।
कामिनीभिः सुखं सङ्गः क्रियते पण्डितैरपि । यदि न स्याद् वारिवीचीचञ्चलं हतजीवितम् ।।१।। (श.श.) जातिपक्षे सविपुला यथा--
सर्वातिरिक्त लावण्यं बिभ्रती चारुविभ्रमा। स्त्रीलोकसृष्टिः सा नूनं निःसामान्यस्य वेधसः ।। व्यक्तिपक्षे--
मनोऽभिरामा शृण्वन्तौ रथनेमिस्वनोन्मखैः । षड्जसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः ।।
अदूरवर्तिनी सिद्धि राजन् विगणयात्मनः । उपस्थितेऽयं कल्याणी नाम्नि कीतिर्न एव यत् ।। जातिपक्षे सविपुला यथा--
क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । को हि मन्दः सहसैव स्वल्पेन बहु हारयेत् ।।१।। एवं व्यक्तिपक्षेऽप्यन्बेष्यम् । दश्यन्ते विपूलाः भेदाः सङकीर्णा अप्यमीमिषः । यथा-- क्वचित् काले प्रसरता क्वचिदायत्यनिघ्नता। शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां कुलम् ।।१।। तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्। हिमांशुमाशु ग्रसते तन्मदिम्नः स्फुट फलम ।। इत्यादि स्वबुद्धयाभ्युह्यम् ॥छ।। वर्णेत्यादि-वर्णछन्दो मात्राछन्दश्च, पद्यं चतुष्पदी, छन्द:पर्यायौ, छन्दोव्यतिरिक्तं गद्यं त्रिकास्त्र्यववाः ॥छ।। मस्त्रिगुरुरित्यादि-गणानां प्रस्तारो यथा--पृथ्वीशः १, प्रतापी २, पुण्यधी ३, द्विषता ४, सौर्येण ५, निजेन ६, संयति ७, जयति ८॥छ। नाम्नी (म्ने)त्यादि। द्विकलोदनामा द्विभेदो यथा श्री १ रिह २॥छ।। त्रिकलस्तन्नामा विभेदो यथा-जिनो १ भाति २ जगति ३॥छ।। चतु:कलश्चनामा पञ्चभेदो यथा--धीमान् १ वसुधां २ प्रशाधि ३ भूधव ४ धृतनयः ।।छ।। पञ्चकलापनामाष्टभेदो यथा--प्रकाम: १ क्षमापते २ विजयसे ३ युद्धेषु ४ विपुलेषु ५ कुलोत्तम ६ सारत ७ मकलकल ८॥छ।।
चतुष्कल: पनामा प्रयोदशभेदो यथा--त्वद्वांछां १ विधुवक्त्रा २ सुलोचना ३ प्रोच्चकुचा ४ घनजवना ५ स्मराकार ६ सौ (शो)र्यसार ७ नयसमुद्र ८ धैर्याश्रय ९ दृढविक्रम १० कलासदन ११ संकलयति १२ विनयनिलय १३ इति सप्रस्तारभेदाः षण्मात्रागणाः ॥छ।।
अर्हादीत्यादि--ह्रादिजिते संयुक्तवर्णे तथा केवलव्यञ्जने पुरः सति पूर्वो लघुर्भवति, यथा--
देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम् । ह्रादावित्यत्रादिशब्दात् तव ह्रियेत्यत्र प्रद्रुभ्रात्रिवर्णानां पूर्ववर्णेषु लघुता । तीव्रप्रयत्नोच्चारे ह्रावावपि प्राग् लघुर्गुरुः । बर्हमारेषु केशान्वा, सुप्तमीन इब ह्रदः ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org