________________
काव्य कल्पलतावृत्तिः परिशिष्ट
पूर्वपदात् । असहनं विद्यमानपूर्वपदेभ्य एभ्यः स्त्रियां डीर्वा भवति तुङ्गनाशिका, कृशोदरी, कृशोदरा वा; बिम्बोष्ठी, वा, इत्यादि । असहनं विद्यमानपूर्वपदादित्येव । सहना शिका, अनाशिका विद्यमाननाशिका; सोदरा, अनुदरा, विद्य मानोदरा इत्यादि ।
२
अनुष्टुप् शासनमित्यादि - कार्यकारणयोरभेदाध्यवसायादनुष्टुप् शासन हेतुस्त बकोऽप्यनुष्टुप् शासनम् । छन्दोऽभ्यासहेतुस्तबकोsपि छन्दोभ्यास इति स्तबकनामानि । रूढयौगिकमिश्राणामाख्यानमाख्या तद्धेतुस्तबकोऽपि । रूढयौगिकमिश्राख्यायौगिकानि च तानि आह्वानानि नामानि च तेषां मालिका यौगिकह्वानमालिका यौगिकनाममाला |छ ।
तुर्ये इत्यादि - अलंकाराभ्यासस्तबकः १ वर्णस्तबकः २ आकृतिराकारस्तबकः ३ क्रियास्तवकः ४ प्रकीर्णस्तवक: ५ संख्यास्तas: ६ समस्यास्तबकः ७ ॥छ ।
ओजे इत्यादि - ओजे विषमे पादे तुर्याच्च तुर्याद्वर्णात् यगणजगणवजं नगगादिभि: षड्भिर्गणैर्न विपुला न विपुलादयः षड्भेदा भवन्ति । तुर्याद्यगणेन पथ्या वक्त्रं । जगणस्तु समपादयोरेव भवति । आसु न विपुलाद्यासु विषमपादे मन्ददाय प्रायस्तुर्यो गुरुः क्रियते । तथा च श्रीमछन्दश्चूडामणौ सर्वासां विपुलानां चतुर्थो वर्ण प्रायेण गुरुर्भवतीति आम्नायः ॥ छ ॥
लक्ष्म्या स्वेतदित्यादि — एता न विपुलाद्या जातिपक्षे व्यक्तिपक्षे च स्युः । ततो जातिपक्षे आसु न विपुलाद्यास्वेतत् पूर्वोक्तं लक्ष्म लक्षणं; तयोरप्योजयोः प्रथमतृतीययोः पादयोः स्यात् । व्यक्तिपक्षे त्वेकस्मिन्नेव प्रथमेऽथ चैकस्मिन्नेव तृतीये । एतन्न विपुलादिलक्षणं प्रथमे पथ्या वक्त्रलक्षणं भवति । यथा महाकवीनां प्रयोगाः व विपुलाः ।
जातिपक्षे यथा --
पश्यन्ति देव चरणद्वन्द्वं ये तव भक्तितः । तेषां भवन्ति विपुलाः सद्यः कल्याणसम्पदः ।।
व्यक्तिपक्षे
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना । (घ ) तव मन्त्रकृतो मन्त्रैः दूरात् संयमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्षभिदः शराः : || ( तविपुला जातिपक्षे यथा
पादेन हता येन सा जाती लुब्धेन मल्लिका । अलेस्तस्: दैवादहो बदर्याऽपि सुदुर्लभः ॥
व्यक्तिपक्षे-
वन्दे कवि श्रीभारवि लोकसन्तमसच्छिदम् । दिवा दीपा इवाभान्ति यस्याग्रे कवयोऽपरे ।। लोकवत् प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ १ ॥
जातिपक्षे भविपुला यथा-
इयं सखे चन्द्रमुखी स्मितज्योत्स्नाऽवभासिनी । इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ॥ १ ॥ व्यक्तिपक्षे यथा --
यस्य प्रभावाद् भुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ १ ॥ मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा । उपस्थितं प्राज्ञ्जलिना विनीतेन गु ( ग ) रुत्मता ॥१॥
१. वाग्भटालङ्कारस्य 'ज्ञानप्रमोदिका' टीकायां' प्रति 'लोकव्यवहारं' इति ।
Jain Education International
For Private & Personal Use Only
)
www.jainelibrary.org