________________
२२२
काव्यकल्पलतावृत्तिः
भुवनावलिवाह नविद्यासन्ध्यागजजातिशंभुनेत्राणि त्रिशिरोमौलिदशाक्षेत्रपालफणकालमुनिदण्डाः ।।२५४॥ त्रिफलात्रिशूलपुरुषाः पलाशदलकालिदासकाव्यानि । वेदावस्था: कम्बुग्रीवारेखा त्रिकूटकूटानि ।।२५५।। हरहतपुरत्रियामा यामा यज्ञोपवीतसूत्राणि । जैन रत्नच्छत्रप्रदक्षिणागुप्तिशल्यानि ॥२५६।। मुद्राप्रणामगौरवशिवभवमार्गा: शुभेतरालेश्या: ।
सर्वेऽप्यमी त्रिसंरव्योपेताः काव्ये निबोद्धव्याः ।।२५७।। म टी. अथ संख्यातोऽर्थोत्पत्तिं प्रपञ्चयन्नाह-एकादिसंख्यासङग्रहो यथा-तत्रैकसंख्या। आदित्येति-आदित्यः, चन्द्रः, मेरुः, प्रासादः, दीपः, दण्डः, कलशश्च खड्गः, हरनेत्रं ईश्वरस्य तृतीयं लोचनं, शेषः शेषनागः, स्वर्दण्डः अङ्ग ष्ठः, हस्तिकरः नाशावंशः, विनायकदन्तो गणेशदन्त:, पताकामनः शक्राश्वः । उदाहरणं यथा एकदन्तेति-एकदन्तो गणेशो जयति । किं कुर्वन? दधन एकदन्तरूपं स्तम्भम् । कथं? पुरोऽग्रे यो वक्ति इव जगद्विघ्नविधाताद्वैतं आत्मनः । द्विसंख्या यथा-भुजे, दृष्टी कौं, पादौ, स्तनौ, सन्ध्ये, रामलक्ष्मणौ, शृङ्गे गजदन्तौ, प्रीतिरती मदनभार्ये, गङ्गागौयौं ईश्वरभार्ये, विनायकस्कन्दौ शम्भपूत्रो, पक्षी नदीतटे, रथयौं, खड़गधारे, भरतशत्रुघ्नी, रामसूतौ कुशलवी, रविचन्द्राविति। अत्रौदाहरणानि स्पष्टानि । त्रिसंख्या यथा-भुवनानि स्वर्ग १ मर्त्य २ पातालरूपाणि ३ । वलयस्त्रिवलयं। उदरे रेखात्रयीरूपा इति यावत्। वह नय: दक्षिणा १ हवनीय २ गार्हपत्यरूपाः ३। विद्यालक्षण १ साहित्य २ तर्करूपाः ३ । सन्ध्याः प्रभात मध्यान्ह २ सायंरूपा ३ । गजजातयः भद्र १ मन्द २ मृगरूपा: ३। शम्भुनेत्राणि त्रिशिरोमौलयः। त्रिशिरसो धनदस्यः मस्तकानि । दशा उत्तम१ मध्यमा२ ऽधमरूपाः । क्षेत्रपालफणा:३ । कालः शीतोष्ण २ वर्षारूपः ३। मुनिदण्डाः मनोवाक् २ काय ३रूपाः । त्रिफला प्रसिद्धा। त्रिशूलं । पुरुषा उत्तम१ मध्यमा२ धमरूपाः। पलाशदालनि प्रसिद्धानि। कालिदासकाव्यानि मेघदूत१ कुमारसम्भव२ रघुवंशरूपाणि। वेदाः ऋग्१ ययुः (जुः)२ साम३ रूपाः । अवस्था: बाल्य १ तारुण्यर वार्द्धकरूपाः३। छद्मस्थत्व१ केवलित्व२ सिद्धत्वरूपाः३ वा । कम्बुरेखाः शङ्खरेखा:३। ग्रीवारेखाः३ । त्रिकुटकुटानि त्रिकूटपर्वतशिखराणि त्रीणि। हरतपुरा ईश्वरहता पुरा दैत्यविशेषाः । त्रियामा या यामा: प्रहरा:३ आद्यंतचतुर्घटिकयोदिवसमध्ये गणनात् । यज्ञोपवीतसूत्राणि त्रीणि। जैनमते रत्नेत्यादि-तत्र रत्नानि ज्ञान१ दर्शनरचारित्र३ रूपाणि। छत्रत्रयं । प्रदक्षिणात्रयं।३ गुप्तयो मनो१ वाक् २ कायरूपाः। शल्यानि माया१ निदान२ मिथ्यात्वदर्शन३ रूपाणि । मुद्रात्रयी जिनमुद्रा? योगमुद्रा२ मुक्ताशुक्तिमुद्रारूपा३ । प्रणामत्रिकं अञ्जलिबन्ध १ अविनत२ पञ्चाङ्ग३ रूपं । गौरवाणि ऋद्धि१ रस२ सूख३ रूपाणि । शिवमार्ग: ज्ञानर्ग दर्शन १ चारित्ररूपः । भवमा २ राग १द्वेष२ मोहरूप:३। शभलेश्या तेज १ पद्म२ शुक्लरूपा.३ । अशुभलेश्या. कृष्ण१ नील२ कापोत३ रूपा. । अत्रोदाहरणानि स्पष्टानि ।
का.क. यथा--
कण्ठोऽयमस्या मुदुमध्यतारस्वरत्रयाधार इति त्रिरेखः । मुदं ददाति त्रिजगज्जयाय प्रयाणशङखो मकरध्वजस्य।। कि रोमराजी यमुनातटेऽस्या वलित्रिदण्डी कलयन्ननगः । कस्यापि रूपेण जितस्तपस्वी तमेव जेतं तनुते तपांसि ।। शल्येन धारितस्यासेधाराद्वितयबिम्बित:। त्रिमतिरिव रेजेऽसौ त्रिवेदीवेदिनोऽचितुम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org