________________
काव्यकल्पलतावृत्तिः
यथा-
यथा-
1
ब्रह्ममुख वेदहरिभुजसुरगजरदवर्णचतुरिकास्तम्भाः सङ्घसमुद्राश्रमघातगोस्तनाश्रमकषायदिशः ॥ २५८।। गजजातिया मसेनाङ्गदण्डहस्ता महाजने वणिजः । दशरथपुत्रोपाध्यायध्यानकथाभिनयरीतिगोचरणाः ॥ २५९॥
माल्यस्तबककराङ्गुलिसंज्ञासुरभेदयोजनक्रोशाः । एते सलोकपालाः काव्ये योज्याश्चतुः संख्या: ॥ २६०॥
Jain Education International
संसारिस्फुटरोषदोषपटलीखेलाय संश्लेषिणो मार्गानुग्रतमप्रमादरजनीयामान् निकामाक्षयान् ।
संसारोरुपुरप्रधानपुरुषान् व्यामोहकारागृह - द्वारप्राहरिकान् क्षिपन्ति चतुरः केचित् कषायत्विषः ॥ वृकोदराद्याः सहसा मनस्विनः सहोदरास्तं परिवनिरे नृपम् । हस्तिनो हस्तमिवासु द्गणच्छिदानिदानं रणपारदाः रदाः ।। स्मरबाणपाण्डवेन्द्रियकराङ्ग लीशम्भुमुखमहायज्ञाः । विषमव्याकरणाङ्गव्रतवन्हिसु पार्श्वफणिफणाश्चैव ॥ २६९ ॥
परमेष्ठि महाकाव्यस्थानकतनुवातमृगशिरस्ताराः । पञ्चकुलमहाभूत प्रणामपञ्चोत्तरविमानाः ॥२६२॥
महाव्रतमरुद्वृक्षसमितिस्थानकानि च । शस्त्रश्रमस्य चैतानि बध्नीयात् पञ्चसंख्या ॥ २६३॥
पञ्चव्रतस्वस्तरुः
पञ्चेषुद्विषभेदपञ्चवदनः स्वर्णाद्रिः समुदञ्चिपञ्चविषयव्यापारपङकांशुमान् । पञ्चाङ्गस्थितिमुक्तपञ्चमगतिः प्रस्थानपञ्चारव : सेव्यः पञ्चसमित्यनादिनिलयः पञ्चेन्द्रियाणां जयः ॥
कर्णस्य सूनुर्वृषसेनवीरः शरप्रपातैः परिपीडितायाः । पञ्चेन्द्रियाणीव परध्वजिन्या द्राग् द्रौपदेयान् विधुरीचकार ।।
म. टी. चतुः संख्या यथा - ब्रह्ममुखानि चत्वारि । वेदा ऋग् १. ययुः [जुः] २. साम ३. अथर्व ४. रूपाः । हरिभुजाश्चतस्रः । सुरगजरदो ऐरावणदन्ताः । वर्णाश्चत्वारो ब्राह्मण १. क्षत्रिय २. वैश्य ३. शूद्ररूपा. ४ । चतुरिकास्तम्भाः चत्वारः । संघः साधुसाध्वीश्रावक-श्राविकारूपः । समुद्राश्चत्वारः । श्रमघाताः काट १. कडग २. अधोरग ३. पोरग ४. लक्षणाः । खड्गे चत्वारः ते । गोस्तनाः प्रसिद्धाः । आश्रमाः ब्रह्मचारि १. गृहि २. वानप्रस्थ ३. भिक्षुरूपाः ४ । कषायाः क्रोध १. मान २. माया ३. लोभरूपाः ४ । दिशः पूर्वा १. दक्षिणा २. पश्चिमोत्तरारूपाः ३-४ । गजजातय: भद्र १. मन्द २. मृग
www.jainelibrary.org
२२३
For Private & Personal Use Only