________________
काव्यकल्पलतावृत्तिः
२२
॥ ४.६ ॥ अथ सङ्मयातोऽर्थोत्पत्तिः कथ्यते
का.क.
औचित्यरचितैः संख्याबन्धबन्धुरितक्रमैः ।
उपमाद्यैलङकारैः सुधीरर्थं समर्थयेत् ॥२४९।। यदैकसंख्यः पदार्थो विवक्षितः तदैकसंख्या अन्येऽपि पदार्थाः। यदा द्विसंख्यस्तदाऽन्येऽपि द्विसंख्याः। यदा त्रिसंख्यस्तदाऽन्येऽपि त्रिसंख्याः। एवमन्येऽपि तत्तत्संख्याकाः अलङकारेण केनापि संकलिताः काव्ये संगृह्यन्ते। उदाहरणानि स्वस्वसंख्यायां दर्शयिष्यन्ते । एकादिसंख्यासंग्रहो यथा
आदित्यमेरुचन्द्रप्रासादा दीपदण्डकलशाश्च । खड्गहरनेत्रशेषस्वर्दण्डाङ्ग ष्ठहस्तिकरा. ॥२५०।। नासायंशविनायकदन्तपताकामनांसि शक्राश्चः । अद्वैतवाद एकैव एवामी सुकविभिर्वाः ।।२५१।।
यथा--
एकदन्तो जयत्येकदन्तस्तम्भं दधत्पुरः । यो वक्तीव जगद्विघ्नविधाताद्वैतमात्मनः ।।
भुजदृष्टिकर्णपादस्तनसन्ध्यारामलक्ष्मणौ शृङ्गे ।
गजदन्तौ प्रीतिरती गङ्गागौयौं विनायकस्कन्दौ ।।२५२।। पक्षनदीतटरथधुर्यखड्गधाराश्च भरतशत्रुघ्नौ ।
रामसुतौ रविचन्द्रावित्येते द्वन्द्वगा वाच्याः ।।२५३॥ उदाहरणानि--
कि भूचरौ तरुणिशीतरुची किमन्यौ रामाच्युतौ किमु गणेशगुहाविहेती। एतो पुनः किमु दिती रघुराजपुत्रावित्याकुलनुपकुलैः सहसैव दृष्टौ ।। आश्लिष्यतामथ भुजाविव विक्रमस्य मूतौं सभाग्रभुवमेकधनुर्धवन्तौ । नत्वा कृत धनुषि सज्जगुण जुनेन भीमो मदादिदमुवाच भुवामधीशान् ।।
प्रविष्टौ कुरुसैन्येषु द्रुतं भीमघटोत्कचौ। भक्ष्येषु सममेव द्वौ बालकस्य कराविव ।। पीड़यमाना दृढं ताभ्यां प्रियदोामिव प्रिया। सिस्वेद च चकम्पे च संममोह च सा चमू ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org