________________
२२०
I
सूर्येन्दुकान्तखद्योतमुक्ता विद्रुमही रका: पद्मरागमरकते वैदूर्य राजपट्टकः ।। २३७ ।।
मदनस्कन्दानिरुद्धनलकूबराः
I
सुरूपा अश्विनी पुत्र नकुलनलदेवाः
पुरूरवाः ।।२३८।।
दानिन: कामधुक्चिन्तामणिकल्पद्रुमावलिः । जीमूतवाहनः कर्णदधीचिशिबिविक्रमाः ।। २३९ ।। धन्विन: शिवकृष्णेन्द्रा भार्गवो रामरावणौ । पार्थ भीष्मकृपद्रोणद्रौणिकर्णाभिमन्यवः ।।२४० ।। आधाराः स्वर्नभोभूदिक पातालाद्रिवनद्रुमाः । नीरग्रामपुरागा रप्रासादा: शयनासने ।। २४१ ॥ पुर्योऽमरावती भोगावती लङकालका तथा । विदर्भा मिथिलायोध्या कान्यकुब्जं कुशस्थलम् ।।२४२ ।। कौशाम्बी त्रिपुरा काशीर्मथुरा हस्तिनापुरम् । अवन्ती पाटलिपुत्रं चम्पा द्वारवती गया ।। २४३ || विदिशा निषधा कोटीवर्ष काञ्ची तमालिनी । माहिष्मती भृगुकच्छं काम्पिल्यं वारणावतम् ।।२४४।। पृथुमान्धातृधुन्धुमाराः पुरूरवाः । भरतश्च कार्तवीर्ययुधिष्ठिरौ ॥ २४५ ॥
राजानः
हरिश्चन्द्रो
मनुः काकुत्स्थसगरौ भगीरथनलौ रघुः । अजो दशरथो रामवत्सौ श्रेणिकसम्प्रती ॥ २४६ ॥ | विद्वन्नृपा: प्रतिष्ठाने शालिवाहनभूपतिः 1 उज्जयिन्यां विक्रमार्क भोजन रेश्वराः Tः ।। २४७ ।। मन्त्रिण: वाक्पतिः शुक्रो जामवान् माल्यवानपि । साङक लायनकूष्माण्डश्रुतशीलास्तथोद्धवः यौगन्धरायण मुद्राराक्षसश्चणकात्मजः ॥ २४८ ॥
इति श्रीजिनदत्त अर्थसिद्धिप्रताने चतुर्थे प्रकीर्णकः पञ्चमः स्तबकः । म. टी. अथाधारपरिवारादिभ्योऽर्थोत्पत्ति विवृण्वन्नाह---
Jain Education International
अभ्येत हंसादीनामित्यत्र - सन्मुखागतं हंसादीनामिति लोकाप्यायकभोजनोदकाद्याधार तथेत्यत्राप्यायकं समाधिकारकमिति । कुरुक्षेत्रान्तर्वेद्यो इति- कुरवोऽत्र क्षयंति स्म कुरुक्षेत्रं तद्द्वादशयोजनावधिगङ्गायमुनयोर्मध्यमन्तर्वेदिरिति । प्रत्यन्तवासिन इत्यत्र प्रत्यन्तो म्लेच्छमण्डल इति । भम्भामुकुन्दमर्दलेत्यत्रातिपृथुलमुखो ढक्काविशेषः, मुकुन्दमर्दलो तु मुरजविशेषावेव । केवलमेकतः संकीर्णोऽन्यत्र तु विस्तीर्णो मुकुन्दः । मर्दलस्तूभयतोऽपि समः । करडा इति करंटिका । तिमिला इति - तिउल्लिकामरुदेशोतिवल इति प्रसिद्धा । रामलक्ष्मणौ रामरावणाविति, प्रत्यन्तरे इत्यादि सकलोऽपि स्तबक सुबोधः ॥ छ ॥
काव्यकल्पलतावृत्तिः
इति श्रीतपागच्छाधिनायक पातसाहिश्री ४ अकब्बरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमुक्तिकारक भट्टारक श्री ४ श्री हीरविजयसूरीश्वरशिष्यपण्डित श्री शुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्देऽर्थसिद्धिप्रतानप्राप्त कीर्णक स्तबको द्योतकः पञ्चमप्रसरः ५ ॥ छ ॥
For Private & Personal Use Only
O
www.jainelibrary.org