________________
२१६
Jain Education International
पुरोधा धेनुरतिथि: सुवर्णं दर्भगोमये । सत्यं सताँ चरित्राणि पूज्यपादरजःकणाः ।। १७८ । । गङगा गोदावरी रेवा यमुना व सरस्वती । कामरूपः कुरुक्षेत्रान्तर्वेद्य कासिपुस्तथा । सत्या सीता दमयन्ती द्रौपद्यरुन्धती तपः ।। १७९ ।। ब्रह्मचर्यं हरिश्चन्द्रनलरामयुधिष्ठिराः । अपवित्राणि रक्तास्थिशकृदुश्चरितान्त्यजा:
॥१८०॥
रजस्वला श्मशानोर्वी भस्माङगाराः शवानि च । कृतघ्नस्वामिविश्वासद्रोहिब्रह्मादिघातिनः ॥ १८१ ॥ शरीरच्युतकेशाद्युच्छिष्टान्नद्विककुक्कुराः । सुखदानि प्रियागीतनृत्यवाद्यादि नाटकम् ॥ १८२॥ आरामः सुमनोरामारामा विभ्रमकेलयः । सुखशय्या शशी दोला स्वातन्त्र्यं श्रीः सुतोद्भवः ।। १८३ || नष्टाप्तिः स्वस्पृहालब्धिः वियुक्तप्रियसङ्गमः । दाता त्यान्सुहृद्विद्या स्वर्ग: पीयूषमप्सराः ॥ १८४ ॥ धर्मः सद्वचनं सन्तः सन्तोषज्ञानमुक्तयः । दुःखदान्याधिनरकौ काराव्याधिविरोधिनः ।। १८५ ।। कुभार्या नैः स्व्य कुग्रामवासः कुस्वामिसेवनम् । कन्याबहुत्वं वृद्धत्वे पत्न्याः पुत्रस्य वा मृतिः ॥ १८६॥
बालत्वे मातृमरणं निवास: परवेश्मनि । दुर्लभे नीरसे स्नेहः होने पररते रतिः ॥ १८७ ॥ ॥ पारतन्त्र्यं परासक्ता पत्नी पुत्राश्च दुर्नया: । वर्षा प्रवासो द्वे पत्न्यौ कुभृत्योऽर्धहलं कृपौ heat निष्कलङकस्य मानिनो मानखण्डना ॥ १८८ ॥ स्थिराणि पृथिवी शैलौ धर्माधर्मो सताँ मनः । सती शीलं रणे धीरः प्रतिपन्नं महात्मनाम् ।। १८९ ।। अस्थिराणि नदीपूरलहरीबिन्दुबुद्बुदाः ।
विद्युद् धूमस्फुलिङ्गोकाऽनिला दीपोऽनिलाहतः ।। १९० ।। मत्स्यः कपिध्वजी सन्ध्या हस्तपुच्छकश्रुतिः । कन्दुकश्चामराश्चक्रं दोला स्त्रीविभवश्रियः ।। १९१ ।।
For Private & Personal Use Only
काव्यकल्प लतावृत्तिः
www.jainelibrary.org