________________
काव्यकल्पलतावत्तिः
२१५
असिपत्रद्रुपत्राणि शुला: प्राजननेमय: । करिदंष्ट्रा हलं मिह नखरा मर्मभिद्वचः ।।१६५।। कुश्यङकुशकुशग्राणि खड्गधारा च हीरकः । कर्तरी कतिकाटङका विन्धनं नखभेदिनी ।।१६६।। महत्तमानि दिक्कालज्ञानव्योमेशकेशवाः ।
आरामः सन्मनोबुद्धिसमद्रारण्यभूमयः ।।१६७।। शय्योर: पुलिनं श्रोणिः कपाटः क्षेत्रवेश्मनि । सूक्ष्माणि केशसूच्यग्रत्रसरेणरजःकणाः ।।१६८।। मनः सन्मतिसंसारस्वरूपपरमाणवः । माङगल्यानि दधिदूर्वाचन्दनाक्षतदीपकाः ॥१६९।। रमालपिप्पलाशोकपत्राण्यब्जंसुमं फलम् । शङख: सिद्धार्थक: सिद्धमन्नं मध्वाज्यमामिषम् ।।१७०।। रूप्यं तानं मणिः स्वर्ण भूषणान्यंशुकानि च । व्यजनं चामराश्छत्रं ध्वजो यानेभवाजिनः ।।१७१।। ताम्बूलं गीतवादित्रगुरुबन्दिद्विजाशिषः । सुस्वप्नशकुने हंसचाषखञ्जनबहिणः । अङगनास्फारशङगाररूपा प्रेमवती प्रिया ।।१७२।। श्रीवत्समत्स्यदर्पणभद्रासनवर्धमानवरकलशाः । स्वस्तिकनन्द्यावर्तावष्ट महामङगलान्याहुः ।।१७३।। अमङगलानि घूकाहिकपोतशशकैतवः । कृकलासो दुःशकुनं दुःस्वप्नं दुरुपश्रुतिः ।।१७४।। कृतघ्नान्त्यजपाषण्डिपतितारिविलापिनः । नग्नच्छिन्नाङगरोगार्तदीनब्रह्मादिघातिनः ॥१७५ ।। सन्मार्जनी खराजाङिघरजो धूमश्चितोद्भवः । छाया शाखोटकविभीतकयोमञ्चदीपयोः ।।१७६।। पवित्राणीशबुध्याह द्विष्णुब्रह्माकतत्कराः ।
पावकाम्भोमरुद्भुमि वेदवाणीयतिद्विजाः ।।१७७।। १ ‘कृश्यङ्कुश ....हीरकः ।' इदं ला१, ला२, मध्ये नास्ति । २ 'पतितार्त' पा. व. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org