________________
२१४
काव्यकल्पलतावृत्तिः
कार्यारम्भात्पदार्थस्य केनापि कारणेन निवृत्ति: कल्पनीया । यथा--
भुवं भुजे योऽधित याचकेभ्यो दिक्कुञ्जरान् दातुमना मनस्वी ।
तदेकय ग्यं भजतां प्रभत्वं न दिक्पतीनां कृपयाऽहस्तान् ।।
उपाध्यायात्प्रभोमित्रात् सेवकाज्जातिभावतः ।।१६१।। सङगात्तद्गुणसंक्रान्तिः यथा--
राजन् दानजितेव सेवनविधि निस्त्रिशलेखामिषादेषा कल्पलता प्रकल्प्य नियतं त्वत्पाणिपङकेरुहान् । सङकल्पाधिकदानकल्पनकलां वेत्ति स्म तस्मादद्विषां क्षोणीभोगसूखाथिनां वितरति स्वर्भोगसौख्यान्यपि ।।
किं त्वचा शिक्षितं लक्ष्मि पितुः कल्लोलचापलम् । यत् त्वं नैकत्र कुत्रापि स्थिरत्वं प्रतिपद्यसे ।।
एतेभ्योऽपि न सा क्वचित् । उपाध्यायादिभ्योऽपि सा तद्गुणसंक्रान्तिर्न स्यात् । यथा--
- द्विजधनवजितमेतद्भवद्भवे यशसि किं न संक्रान्तम् ।
सुकृतकवेश्म यस्माद् द्विजराजश्रीहताऽनेन ।।
आहारसदृशोद्गारद्युत्यद्भवविपर्ययैः ।। १६२॥ वस्तुनि औचित्यादाहारसदृशयोरुद्गारदेहवर्णयोरुद्भवः कल्पनीयः । क्वाप्याहारादेतयोविपर्ययः कार्यः / क्रमाद्यथा--
अतिलौल्यत: कवलयन् मलिनद्युतिकाननं किमपि दावशिखी । बहुभक्षणेन शिति[सित]धूममिषात्तनुते स्म भोजनवद्गिरणम् ।। द्विषन्म गाक्षीनयनाञ्जनानि यदेष नित्यं कललीकरोति ।
क्षितीश तेनाशनसन्निभव विभा विभाति स्म भवत्कृपाणे ।। विपर्ययो यथा
यद्वदन्त्यशनसन्निभं तमेवोद्गारमित्यनतमत्र बभासे । गीतकं यदुदगारि सुधावत् पीतसीधुभिरपि प्रमदाभिः ।। सिच्यमानमपि शत्रुकामिनीकज्जलाविललोकचनाश्रुभि ।
आहृतासितनभोऽपि भासते श्वेतभानसममेव यद्यशः ।। पदार्थाना मिथः साम्यं स्यादर्थोत्पत्तिकारणम् ।
अतः सदृशवस्तूनि संगृह्यन्ते कियन्त्यपि ।।१६३।। वर्णाकारयोः सदृशपदार्था उक्ताः । अपरः प्रकीर्णकः सदृशवस्तुसंग्रहः क्रियते । यथा
तीक्ष्णानि प्रतिभास्त्राणि कटाक्षाः सूचिका नखाः । दात्रशल्लकशूलानि कुठार: क्रकचस्तथा ॥१६४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org