SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २१२ काव्यकल्पलतात्तिः ताटङकामुकतमुक्तालिच्छलतस्तारकाततिः । निजभर्तृ भ्रमेणेयं भेजे चन्द्रमुखीमुखम् ॥ यत्र वैदूर्यवर्येषु कुट्टिमेषु तमोभ्रमात् । प्रतिबिम्बन तद्भित्यै पतिरापाति त्विषाम् ।। भ्रमकारिणोऽपि प्रतिबिम्बता यथा-- मणिनद्धेषु यत्सौधाङगणेषु प्रतिबिम्बितम् । शशाङकं कैरवभ्रान्त्या भजन्ते भृङगराजयः ।। कार्यप्रवृत्तिरन्यत्र कारणप्रत्यये भ्रमात ॥१५६।। यथा एकत्र क्वचिदेव देवसदने सम्प्रेक्ष्य साक्षात्कृतप्रद्योतं तपनीयकुम्भमुदयक्ष्माभृद्वतार्कभ्रमात् । आश्लिष्यन्त्यनिश निशास्वपि वियद्गंगारथांगोमिलद्भर्तुभान्तिभृतः पयोगतनिजच्छायाविमुग्धाशयाः । कार्यप्रवृत्ती भ्रमतः साफल्यं जायते क्वचित् । यथा विध मणिमयसौधप्राङगणे यत्र चन्द्रप्रतिमितिमतिफुल्लत्करवभ्रान्तिभाजः । असकृदमृतबिन्दुस्यन्दपानेन भृङगाः प्रसुमरमकरन्दास्वादसौख्यं लभन्ते ।। यत्रोन्मुखं चातकवृन्दमभ्रभ्रमेण चैत्योत्थितधूपधूमे । वेल्लत्पताकाग्रगृहीतमुक्तनभोनदीबिन्दुभिरेति तृप्तिम् । भ्रमात् कार्यस्य नैष्फल्ये भ्रमः सत्येऽपि वस्तुनि ॥१५७।। . यथा आलिङग्योच्चैः सुरगृहशिरःशातकौम्भीयकुम्भान् भर्तृ भ्रान्त्या निशि विफलिताः स्वर्गगङगारथाङग्यः । अर्कालोकादुपगतमपि प्रीतिभाजं रथाङगमिथ्याबुद्धया सपदि न परीरब्धमारात् त्वरन्ते ॥ भ्रमात् कार्यस्य नैष्फल्यं सत्येऽप्यकरणं तथा । यस्मिंश्चित्रपतत्पतत्रिषु रुषोत्कर्षेण वेष्मान्तरे मार्जारः परिजर्जरोऽजनिजवादाहत्य सत्यभ्रमात् । तान् विन्दन्नभिजीवतोऽपि स पुनः प्राग्भंगभावादभिव्यक्तं मुक्तविरोधबोधविषयो लोकैः समालोक्यते ।। भ्रान्तस्य वस्तुनोऽन्यत्वं जायते भ्रमतोऽन्यतः ।।१५८।। यथा-- चिक्रंसया कृत्रिमपत्रिपंक्तः कपोतपालीषु निकेतनानाम् । मार्जारमप्यायतनिश्चलाङगं यस्यां जनः कृत्रिममेव मेने ।। भ्रमज्ञातपदार्थस्य पूरणं च भ्रमान्तरात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy