SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः अङगद्वेषिसुहृत्पोषैः द्वेष्याङगद्वेषिणां ये मूहृदस्तेषां जितपदार्थपाश्वात् पोषो विधेयः । यथा--नार्या मुखजितश्चन्द्रः स्त्रीकटाक्षद्वेपिषटपदश्रेणिप्रीतिदायीनि कैरवाणि विकासयति । नार्या गतिजितो हस्ती स्त्रीमुखद्वेषिकमलोपासकान् भङगान दानेन पुष्णाति । अङगद्वेषिद्विषद्वधैः । द्वेष्याङगद्वेषिणां यानि द्विषद्र पाणि वस्तूनि, तेषां जितपदार्थपावद्विधो विधातव्यः । यथा--नार्या धम्मिल्लजितो राहः स्त्रीमुखद्वेपिकमलद्वेषिणं, नारीकुचयुग्मद्वेषिचक्रयुगद्वेषिणं वा चन्द्रं पीडयति । नार्या वेणीजिता भङगश्रेणी स्त्रीमखद्वेषिचन्द्रद्वेषिकमलानि पदाघातैः पराभवति । समानवस्तुनः शोभा चौर्यान्नाशोऽथ निग्रहः ॥१५३।। वाङगसदृशं यद्वस्तु तस्य वाङगशोभाचौर्य परिकल्प्य वनादिषु नाशो निग्रहो वा कल्पनीयः । यथा--भगा नारीनयनशोभा हृत्वा वने नष्टा: । स्त्रीमध्य स्थितं हृत्वा सिंहो गिरिगह्वरे नष्टः । नारीमुखलक्ष्मीहरं कमलमिति राजहंसैः खण्डशः क्रियते । रात्री स्त्रीमुखलक्ष्मी हरति चन्द्र इति प्रातःकालेन छिन्नकरः क्रियते । निपानायतनद्रव्यभङगप्राकारलङघनैः । राजवेषासनस्थानविरुद्धादिनिषेवणैः ॥१५४।। अगभ्यगमनापेयपानकाभक्ष्य भक्षणैः । अपह नवाद्भवेद्दिव्यं प्रायश्चित्तं तदन्यतः ।।१५५।। दिव्यं यथा-- हृत्वापि कान्तिधनमस्य नृपस्य कीर्तदिव्यं सजन्निव जगत्यपवादभीतः । इन्दुः सुधावपुरपि प्रभुरोषधीनामप्येष लक्ष्ममिषसर्पभूतौ न शुद्धः । मायश्चित्तकरणं यथा-- समरे यत्करवालः पीत्वा मातङगकुम्भकीलालम् । अनुतापीव व्रतयति रिपुनृपतीनां यशःक्षीरम् । अथ भ्रमप्रकारैरर्थोत्पत्तिर्यथा-- स्वस्थादिभिर्ब मात् कार्यप्रवृत्तिः परिकल्प्यते । स्वस्थच्छमस्थप्रतिबिम्बस्थता पूर्ववत् । क्रमाद्यथा-- नलिनानि पानमधुभाजनानिनः पिदधाति यः स विधुरेष गोचरः । इति रोपणरिव मधवधुतं सुदतीमुखं सुरभिचारुमारुतम् ।। 1. 'दानैः पा. व. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy