________________
२१०
काव्यकल्पलतावृत्तिः
तपसा वर्ण्यशोभाप्राप्तौ सदशवस्तुनोऽन्यदपि श्रेयः सम्भाव्यम् । यथा---कमलं जलवासादिभिर्मुखोपमा प्राप्य लक्ष्मीस्थानं राजहंससेव्यं बभूव । जलवासादिभिः पाञ्चजन्यो नारीकापमानं प्राप्य लक्ष्मीपतेरपि करारविन्दानुग्राह्यो बभूव ।
श्रेयस्तदाप्तौ दोषेऽपि तपसा वर्ण्यस्योपमाप्राप्ती सदशवस्तुनः सदोषस्यापि श्रेयः कल्पनीयम् । यथा-जलवासादिभिर्मखोपमा प्राप्त कमलं सकण्टकमपि देवशिरांस्यधिरोहति । विष्णपदसेवया गङगा यत्कीर्तिसमतां प्राप्य नीचगामिन्यपि शिवशिर:संश्रयाऽऽमीत् ।
तदातौ नर्तनादिकम् । तपसा वोपमाप्राप्ती हर्षेण सदृशवस्तुनो नर्तनादीनि कल्पनीयानि । नर्तनादीन्यमूनि यथा---
नृत्योत्कन्धरता स्मरगौरवापीडपुष्टता ॥१५१।।
आश्रितातिथिविप्रादिदानं देवादिपूजनम् । यथा--जलवासादिना स्त्रीमुखोपमा प्राप्य कमलं वातचलितपत्र त्यं रचति । राज्ञः स्थैर्योपमा प्राप्य रुकन्धरोभत । गाम्भीर्योपमा प्राप्य जलधिः सर्वदिग्त्यापी वभूव । मतिसमतां प्राप्य बहस्पतिर्देवगरुतां गतः । सुकेश केशोपमां प्राप्य कलापी शिखामिषादापी धत्ते । स्थैर्योपमा प्राप्य गिरिः शिरस्थमेघावलिप्याजान्मुकुटं धत्ते । राज्ञः स्थोपमा प्राप्य मेरु: स्थूलोऽभूत् । मुखोपमां प्राप्य चन्द्रः स्वाश्रितचकोरान् स्वेच्छया ज्योत्स्नापानं कारयति । मुखलक्ष्मी लब्ध्वा कमल हंसद्विजानतिथीन् भृङगानाहारदानैः प्रीणयति । मुखोपमा प्राप्य चन्द्रेण स्वकलया शिवपूजा कृता । एवं चले नत्यं, उच्चे गर्वोत्कन्धरता, विस्तीर्ण स्मेरता, पूज्ये गौरवं, शिरःस्थवस्तून्यापीडः, स्थूले पुष्टता कल्पनीया । इत्याहानेकोल्लेखैरर्थः कल्पनीयः ।
अर्थोत्पत्तये प्रकारान्तरमाह----
द्वेष्यस्याङगसुहृद्भङगैः वर्ण्यवस्तुना जितो यः पदार्थस्तस्य वयं तावद् द्वेप्यम् । ततो द्वेप्यस्य वर्ण्यस्य यान्यङगानि तेषां साम्येन
ण यानि वस्तुनि तेषां जितपादिभङगः कल्पनीयः । यथा-नार्या कूचाभ्यां जितः कुम्भी नारीमुखमित्राणि कमलान्युन्मूलयति । नार्या मध्यजित: सिंही नारीनेत्रमित्राणि मृगकुलानि भिनत्ति ।
अङगविद्वेषिपोषणैः ॥१५२।।
द्वेष्यस्याङगानां समतया द्वेषिरूपाणि यानि वस्तुनि तेषां जितपपदार्थपाति पोषः कल्पनीयः ।
यथा--नार्या गतिजितो हस्ती तवेषिणो भङगान् दानन पुष्णाति । नारीमखजितं कमलं तद्गनिस्पधिनो हंसान स्वशरीरखण्डैरपि प्रीणयति । अङगमित्रसुहृद्भङगैः द्वेष्याङ्गमित्राणां ये सुहृदस्तेषां जि-पदार्थपावद्भिङगः कल्पनीयः । यथा नार्या धम्मिल्लजितो राहारीमखमित्रकमलमुहृदं रवि पीडयति । राज्ञः यशोजितश्चन्द्रो राजप्रतापमित्ररविमित्राणि चक्रवाकान् कमलानि च पीडयति । अङगमित्रारिपोषणः : द्वेष्याङगमित्राणि यानि तेषां ये रिपवस्तेषां जितपदार्थपात्पिोपणं कार्यम् । राज्ञः प्रतापजितो रविः राजयशोमित्रचन्द्रद्वेपिण: कमलानि सथीकानि कुरुते । राज्ञो यशोजितश्चन्द्रो राजप्रतापमित्ररविद्वेषिणः करवाणि विकासयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org