________________
काव्यकल्पलतावृत्तिः
अथ तपसाऽर्थोत्पतिभेदा:--
स्यात्तपः स्वगतं छद्मगतं च प्रतिबिम्बगम् ।।१४८।। तपोविधिस्त्रिधा-आत्मनैव स्वयं कृतं, सदृशवस्तुच्छद्मना वा कृतं, जलादिषु प्रतिबिम्बतया वा कृतम् । त्रिविधमप्यग्रे उदाहरिस्यते।
वनादिभिस्तपो वर्ण्यजितस्यैतत्कलाप्तये ।
वर्ण्यजितस्य वस्तुनो वर्ण्यशोभाप्राप्तये वर्ण्य जयाय वा वनादिभिस्तपः कल्पनीयम् । स्वगतं यथा--मुखजितं कमलं मुखशोभाप्राप्तये जलवासादितपः कुरुते ।
छद्मगतं यथा--मुखशोभाप्राप्तये चन्द्रो वने लताशाखावलम्बी कुसुमस्तकच्छलेन तपस्तनुते । प्रतिबिम्बगतं यथा--मुखलक्ष्मीलब्धये चन्द्रो रत्नभूमिप्रतिबिम्बतया शैलशिरसि तपस्तनुते । एवं सर्वभेदेषु विविधत्वं बोध्यम् ।
तपसा सत्पदावाप्तिः
जितस्य सदशस्य तपसा वर्णशोभाप्राप्तिः । यथा--यत्कमलेनाकंठजले जलाहारेण तपस्तप्तं तेन नारीमखसमानता लब्धा । यच्चन्द्रेण वने कुसुमस्तबकच्छलेन तपस्तप्तं तेन स्त्रीमुखलक्ष्मीर्लब्धा । यद् भृङगधेणिभिः विष्णुपादाम्बुजे कान्तिधोरणि मिषेण सेवा कृता तेन नारीकटाक्षच्छटोपमा प्राप्ता ।
दुःखादिस्तदनाप्तितः ।।१४९।। तपसाऽपि वर्ण्य लक्ष्म्या अप्राप्ती जितं वस्तु दुःखचेष्टितानि कुरुते । यथा-मुखजितं कमलं जलबासादिभिरपि मुखलक्ष्मी न प्राप, ततो भ्रमररवैराक्रन्द्र कुरुते । वेगीजिका भृङगश्रेणी बने मकरन्दास्वादमात्राशनाऽपि वेणीसाम्यं न प्राप, ततः साक्रन्दा भ्रमति ।
तेनापि न हि तत्प्राप्तिः । जितं वस्तु तपसाऽपि वर्ण्यशोभां न लभते। यथा--कमलं जले आकण्ठमग्नं तपस्तेपे, परं नारीवक्त्रोपमां न प्राप। हंसः सरस्वतीपदसेवां चक्रे, परं नारीगत्युपमां न प्राप ।
महत्प्राप्तिन तस्य तु । तपसा महतोऽन्यस्य श्रेयसः प्राप्तिर्भवति न पुनर्वर्ण्यशोभाप्राप्तिः । यथा-कमलं जलवासादिभिः श्रीपदं राजहंससेव्यं जातं, न पुनः स्त्रीमुखोपमा लेभे । चन्द्रेण ज्योत्स्नादानैश्चकोरप्रीणनासुकृतः शिवशिरसि पदं लब्धं, न पुनः स्त्रीमुखोपमानम् ।
तदाप्तौ दुष्कृतं विघ्नः तपसा वर्ण्यलक्ष्मीप्राप्तौ जितवस्तुनः किञ्चिद्दष्कृतं विघ्नं कल्पनीयम् । यथा--कमलं शम्भोरम्भोमूर्तेः सेक्या मुखोपमामयास्यच्चेन्नित्याश्रिीभृङगबन्धं नाकरिष्यत् । विष्णुपदसेवासुकृतेन विष्णुपदी, यत्कीर्तितुलनां प्राप्नुयाद्यदि नीचगमनं न कुर्यात् ।
तदवाप्तावपरं शुभम् ।।१५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org