________________
२०८
काव्यकल्पलतावृत्तिः
धातुमये वस्तुन्येते भावा भावनीया: । यत्पूर्व वह्निप्रवेशहरूपुरघातसन्दंशग्रहणयन्त्रान्तराकर्षणताडनच्छेदन घनप्रहारटङिककाघातादि कष्टमनुभूतं, यद्देवतामण्डनतया कान्ताभूषणतया लोकाप्यायकभोजनाद्याधारतया देवदेव्यादियन्त्राद्याकारतया लोकोपकारः कृतस्तैः सुकृतैर्धातुमयवस्तुनः शुभस्थानादिकं सम्भाव्यम् ।
पाषाणमये वस्तुन्येते भावा भाव्या: । यत्पूर्व टकविदारणधनप्रहारटङिककाघातादि कष्टमनुभूतं, यद्धर्मस्थानदेवादिहेतुतया परोपकारः कृतः, तैः सुकृतैः पाषाणमयवस्तुनः शुभस्थानादिकं सम्भाव्यम् ।
चर्ममयवस्तुन्येते भावा: आरोप्याः । यत्पूर्व कृत्तिकादिच्छेदनक्षारक्षेपविक्रय चर्मकरपदाघातकम्पिकाच्छेदसूचिकावेघवरकबन्धव्यङगप्रहारादिकप्टमनुभूतं, यत्पादत्रागतयोत्तमानां ब्राह्मणाधुपयोगिकरपत्रादिकतया, पुस्तकाद्यावरणतया, इत्यादिभिः कारणैः परोपकारः कृतः तैः सुकृतैश्चर्ममय वस्तुनः शुभस्थानाचूह्यम् ।
कापसिसूत्रमये वस्तुन्येते भावा भाव्याः । यत्पूर्व शीतवाताद्ययाचिताम्बपानकर्मकरनखच्छेदविक्रयापवरकान्तरक्षेपलाहोपलकर्षणस्तुलारोहणान्तः साराकर्षणपिञ्जनघातविदारणयन्त्रारोहतभ्रम्याकर्षणत-सूवायकराकर्षणकाष्ठप्रहारविपणिविक्रयादिकष्टमनुभूतं तूलेन, तूलिकादिरूपतया वस्त्रेण, परगुह्याच्छादनदेवतायादिपरिधानादितया लोकशीततापादित्राणादितया परोपकारः कृतः, तैः सुकृतैः कापसमयवस्तुना शुभस्थानादि सम्भाव्यम् ।
एवं सर्ववस्तूनां पूर्वकृतं कष्टं सुकृतं चाऽऽरोप्य भव्यस्थानाश्रयणादिभिरर्थः समर्थनीयः ।
जितस्य सेवा स्वगता छद्मगा प्रतिबिम्बगा ।।१४७।। जितस्य द्वौ प्रकारौ भवत:--विदेशगमनं, जेतु: सेवाकरणं वा । विदेशगमनं वनादिषु प्रपञ्चितम् । सेवा तु त्रिविधा
स्वगता यथा-भारत्या गतिजितो हंसः पदसेवां चकार। पार्वत्या मध्यजित: सिंहः सेवां कुरुते। छद्मगा यथा-- कामिन्या कटाक्षवक्रगतिजित: सर्पो वेणोमिषादनचरीभत: । मुखजितश्चन्द्रश्चन्दनवत्ततिलकच्छद्मना सेवते । प्रतिबिम्बगता यथा--मुखजितश्चन्द्रः कपोलप्रतिबिम्बतयानुप्रवेशं चक्रे । जलमाधुर्यजितश्चन्द्रः प्रतिबिम्बतया सरः सेवते स्म । इत्याधुह्यम् ।
सेवासुकृततः श्रेयोऽन्तरप्राप्तिद्विषज्जयः ।
यथा--यत् गतिजितो हंसो भारतीपदसेवां चके तेन सुकृतेन तज्जातिरपि मधुरशब्दाऽऽसीत् । मध्यजित: सिंहो यत्पार्वतीपदसेवां चक्रे तेन सुकृतेन स्वजातिराज्यमन्यैरनाक्रमणीयत्वं लेभे । जितया कमलश्रिया कामिनीमुखाश्रयणेन निजरिपुश्चन्द्रोऽपि जीयते स्म । मुखजित चन्द्रेण स्फटिकादर्शच्छदमना कामिनीमाश्रित्य स्वोदयेऽपि सदा विकासि सधीक करस्थच्छद्मकमलमधःक्रियते, मुकुलीक्रियते च ।
वर्ण्यवस्तुनः स्पर्धापापेन सदशं वस्तु सदूषणं कल्प्यम् । यथा--मखस्पधि कमलं स्पर्धोद्भवपापै राजप्रसादविकलं सकण्टकं च जातम् । यश:स्पर्धी चन्द्रः सकलङकः क्षयी च जातः ।
सुकृतेऽपि सदोषता । वस्तुनः स्पर्धापातकेन सदर्श वस्तु सुकृतं कुर्वाणमपि सदूषणं स्यात् । यथा--मुखस्पर्धा कुर्वन् चन्द्रो महेश्वरं सेवमानोऽपि सकलङकोऽभत । मखस्पोद्भवैः पापैः कमलं हंसद्विजान शरीरखण्डैरपि प्रीतान कुर्वाण सकण्टकं जातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org