________________
काव्यकल्पलतावृत्तिः
का. क.
।। ४.५ ।।
अथाधारपरिवारादिभ्योऽर्थोत्पत्तिर्यथाः
२०७
वनगिरिजलभास्वद्वातशीताग्निलोहप्रहरणपरघट्टा भ्येतजन्तूपकारैः । सरिदधिगम मौनध्याननैश्चत्य मन्त्रानशनसलिलभोगायाचितक्षान्तितप्तैः ।। १४५ ।।
वर्ण्यवस्तुना निर्जितस्य सदृशस्य वस्तुनो वचनादिभिरमीभिर्भावैः समर्थनीयोऽर्थः ।
यथा— स्त्रीनेत्रजिता मृगा वनं गताः । मध्यजितः सिंहो गिरिगह्वरं प्रविष्ट: । मुखजितं कमलं जलदुर्गमगात् । स्थैर्यजिता गिरयां भास्वत्तापवातशीताग्निमुख्यदुःखानि सहन्ते । वक्षोजितः प्रतोलीकपाटो लोहकीलः कीलितः । मुखजितं कमलं भ्रमरप्रहरणानि सहते, भ्रमरसंघट्टं तितिक्षते । अभ्ये हंसादीनां शरीरखण्डैरण्युपकारं कुर्वते । गतिजिता हंसा: शरदधिगमं कुर्वते । दम्भजितो बकः सरित्तटे मौनी ध्यानं कुरुते । तुङ्गत्वजितो मेरुर्लोकादृश्ये स्थाने निश्चलीबभूव । मुखजितं कमलं भ्रमररावैर्मन्त्रान् जयति । नखजितानि रत्नानि गिरी निराहाराणि तस्थुः । अधरजितानि प्रवालानि जलमध्ये जलाहारत्या वर्तन्ते । अङ्गसौकुमार्यजितं शिरीषकुसुमं वनेऽयाचितव्रतं कुरुते । मुखजितं कमलं भ्रमराङघ्रिघातैरपक्षतां कुरुते । उदाहरणानि वन जिपदार्थस्येत्यादिभिरुपायैरर्थः समर्थनीयः ।
लज्जाको पतपोनाश से वाक्रन्दास्य कृष्णताः । रोगात्पाण्डुरता शस्त्री विषकम्पादयो जिते ॥ १४६॥
वजितस्य वस्तुनः पराजयपराभवोद्भवा एते लज्जादयो भावा यथौचित्यं योजनीयाः ।
यथा -- मुखजितं कमलं लज्जयेव वनं गतम् । कोपतप्तमिव जलाश्रयं ययौ । नद्यामाकण्ठमग्नं जलाहारतया तपस्तुते । अथवा जलदुर्गे नष्टं शम्भोरम्भोमती सेवा करोति । भ्रमरावैराक्रन्दं कुरुते । लीनालिभिः श्याममुखमासीत् । मुखेन समत्वप्रीत्या संभावित कोकनदमनुरक्तत्वं धत्ते । नेत्रजितं कैरवं दुःखात् पाण्डुरतां गतम् । भृङ्गश्रेणीमिषादुदरे शस्त्रीं क्षिपति | जलान्तर्झम्पां ददौ । भृङगमिषाद्वा विषं भक्षयति । एव यो रक्तपदार्थः सः पदार्थेन जितः कोपादिवाक्तोऽथवा कयाचिद्युक्त्या सानुरागो भणनीयः । यः श्वेतः श्यामश्च स सदृशजितो दुःखादिवोत्पाण्डुरः कृष्णश्च समर्थनीयः ।
वृक्षाङ्गादिजवस्तूनां वनाद्यैः सत्पदादिकम् ।
किञ्चिद्वस्तु वृक्षाङगादिमयं किञ्चिन्मृन्मयं किञ्चिद्धातुममं किञ्चित्पाषाणमयं किञ्चिच्चर्ममयं किञ्चित्कार्षा समयमित्यादिवस्तूनां वनवासादितपोभिः शुभस्थानाश्रय शुभाका रशुभवर्णशुभक्रियाशुभपरिवारादीनां प्राप्तिः सम्भाव्या ।
Jain Education International
यद् वृक्षाङ्गादिमयं वस्तु तस्यैते भावा विभाव्याः । यत्पूर्वं वृक्षभवे रवितापशीतवातादिकष्टमयाचितव्रतादिभिस्तपस्तप्तं यन्मूलत्वपत्र पुष्पफलच्छायादिभिः सूर्यतापतानां रोगार्तानां भोगार्थिनां मङ्गलार्थिनां मर्त्यानां भृङ्गाणां पक्षिणां चतुष्पदानामुपकृतं तेन सुकृतेन वृक्षाङगमय वस्तुनः शुभस्थानादिप्राप्तिः ।
मृन्मये वस्तुन्येते भावाः समर्थनीयाः । यत्पूर्वं कुद्दालातपदप्रहारयन्त्रबन्धप्रवेशचत्रा रोहण भ्रमणपिण्डिकाकाष्ठहस्तकरघा रवितापशोपवन्हिप्रवेशपरीक्षार्थं शिरः प्रहारादिभिः कष्टमनुभूतं यत् जनबुभुक्षा तृष्णा हान्नजलाधाररूया जनाधारगेहादिहेतुतया लोकोपकारः कृतस्तैः सुकृतैर्मन्मयवस्तुनो भव्याधारादिकमारोप्यम् ।
For Private & Personal Use Only
www.jainelibrary.org