SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०६ काव्यकल्पलतावृत्तिः अथ पूर्वजक्रमो यथा-- वो वैरिस्त्रीविरहानलः, तत्रारोपितो नृपप्रतापः, तस्य वैरिस्त्रीहृदयप्रवेशः क्रिया, तस्याः कारणं पूर्वजक्रमः, ततोऽस्मत्पूर्वजः कृपाणो वैरिहृदयेषु प्रविष्ट' इति कृपाणोद्भवो नृपप्रतापोऽपि विरहानलच्छलेन वैरिस्त्रीहृदयेषु प्रविष्टः । वा वैरिस्त्रीस्तनपाण्डिमा, तत्रारोपितं नृपयशः, तस्य वैरिस्त्रीकूचाश्रयणं क्रिया, तस्याः कारणं पूर्वजक्रमः, ततो 'मत्पूर्वजः कृपाणो रिपुकुम्भिकुम्भेषु विललास' इति कृपाणोद्भवं नृपयशोऽपि रिपुकुम्भकुम्भिसोदरेषु वैरिस्त्रीकुचेषु पाण्डिमच्छलेन विललास । आरोप्य' वर्ण्यवस्तूनां क्रियासु सदृशी: क्रियाः । तासां रोपितक्रियाणां कल्प्यमुत्पत्तिकारणम् ॥१४४।। . . वर्ण्यवस्तूनां क्रियासु कम्पनादिषु नर्तनादिकाः, भ्रमरकूजनादिषु जपनस्तवनाक्रन्दनाशीर्वचनादिका: क्रिया आरोपयेत् । ततस्तासामारोपितक्रियाणां नर्तनादीनां हर्षादीनि, जपनादीनां श्रेयःप्राप्त्यादीनि कारणानि कल्पनीयानि । इति श्रीजिनदत्त अर्थसिद्धिप्रताने चतुर्थे क्रियास्तबकश्चतुर्थः । म.टी. अथ क्रियाभ्योऽर्थोत्पत्तिः इष्टप्राप्त्यै इत्यादि सकलक्रियास्तबक: सुगमोऽस्तीति न व्याख्यातः। . इति श्री तपागच्छाधिनायक...चतुर्थः प्रसरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy