________________
काव्यकल्पलतावृत्तिः
a नारीमुखपत्रवल्ली कस्तूरिका, तस्याः पूर्वजो मृगः, ततोऽस्मत्पूर्वजो मृगः चन्द्रं श्रित इति पूर्वजक्रमान्मुगनाभिरपि चन्द्रसोदरं सुमुखीमुखं श्रिता । छ
एवं सर्ववस्तुषु क्रियामारोप्येष्टप्राप्त्यादिकारणानि योजनीयानि ।
क्रियाभ्योऽर्थोत्पत्तये प्रकारान्तरमाह-
वर्ण्यपह्नुतिवाचकशब्दैरारोपितेषु तुल्येषु
रचितोचितक्रियाणामिष्टप्राप्त्यादिकारणं कल्प्यम् ।।१४३ ।
वर्ण्य वस्तुष्वपहनुतिवाचकैः शब्दै रूपकोत्प्रेक्षाभ्यां वयकारक्रियादिभिः सदृशानि वरवस्तूनि यथौचित्यं क्रियाः कल्पयेत् । ततः प्रकल्पितक्रियायामिष्टप्राप्त्यादीनि कारणानि योजयेत् । यथा - वर्ण्या नारीनखा:, तेषु तुल्यत्वादारोपितास्ताराः, तासां पादलगनं क्रिया, तस्याः कारणं नारीप्रसादनेष्टप्राप्तिः, ततः 'तव मुखस्पर्धापातकेनास्मत्पतिः कलङ्कितः क्षयी नाद्यप्रभृति स्पर्धत' इति नार्याः प्रसादनं कर्तुमिव नखछतार्थैराकृत्यर्थदेहार्थ मुख्यैः शब्दैः वर्णाकारक्रियादिभिः सदृशानि वस्तूनि यथोचित्यमारोपयेत् । ततः कल्पितक्रियाणामिष्टप्राप्त्यादीनि कारणानि योजयेत् । मिषेण चन्द्रदारास्ताराः पादयोर्लग्नाः ।
वर्ण्यश्चन्द्रः, तत्र तत्तुल्यत्वादारोपितं यशः, तस्य त्रिभवने, भ्रमणं क्रिया, तस्याः स्वसंताननिरीक्षणं कारणं, ततो मत्समानः कोऽप्यस्ति न वेति' निरीक्षितुमिव पीयूषद्युतिच्छलेन नृपयशो भुवनत्रयं भ्रमति ।
२०५
वर्ष्या वेणी, तस्यां तुल्यत्वादारोपितः सर्पः, तस्य नार्या अनुसरणं क्रिया, ततस्तद्वचनस्य सुधया सह मैत्रीमि कारयितुं सुधाध्यक्षः, सर्पो वेणीमिषेण नार्या अनुचरत्वं करोति । अथवा तस्याः कटाक्षवकत्वमिव शिक्षयितुं वेणीमिषेण सर्पों नार्या अनुचरत्वं गतः ।
व दशनद्युतिस्तस्यामारोपिता सुधा, तस्या रामाश्रयणं क्रिया, ततो वचनमाधुर्यमिव शिक्षितुं दशनद्युतिमिषेण सुधा रामाश्रयणं करोति ।
वर्ण्य ऐरावणः, तत्रारोपितं यश: तस्थ स्वर्गङ्गाश्रयणं क्रिया, तस्या रिपूच्छित्तिः कारणं, स्वर्गङ्गामिव गाहितुमैरावणच्छलेन नृपयश: स्वर्गगां गतम् ।
कुचो, तयोरारोपितौ चक्र, तयोः कान्ताश्रयणं क्रिया, तस्याः कारणं रिपूच्छित्तिः ततो, निजवैरिणश्चन्द्रस्य तन्मुखपात् पराभवं कारयितुं कुचच्छलेन चक्री नारीमाश्रितौ । 1
Jain Education International
ततः स्वः स्पर्धिनी
अथ स्पर्धा --
हारमुक्ताः, तास्वारोपितास्ताराः, तासां नारीसमाश्रयणं क्रिया, तस्याः कारणं स्पर्धा, ततः 'अस्मत्सहोदयेन तमसा वेणीमिषादियमाश्रिता' इति स्पर्धयेव हारमुक्ताच्छ्लेन ताराभि: स्त्री समाश्रिता ।
aa शिवशिरः सरित् तस्यामारोपिता कीर्तिः, तस्या: शिवाश्रयणं क्रिया, तस्याः कारणं स्पर्धा, ततः 'कण्ठरुच्छिलेन भवद्रिपुकीर्तिः शिवमाश्रिता, इति स्पर्धयेव तव कीर्तिरपि शिरोगङगाच्छलेन शिवं श्रिता ।
1. नारीं समाश्रित्ती - ला 1, ला 2,
For Private & Personal Use Only
www.jainelibrary.org