________________
२०४
काव्यकल्पलतावृत्तिः
अथ क्रियाभ्योऽर्थोत्पत्तिः
का. क.
कथ्यते । यथाइष्टप्राप्त्यै रिपूच्छित्त्यै स्पर्धया पूर्वजक्रमात् ।
वर्ण्यवस्तुक्रियाभावैः क्वापि श्लेषकृतस्मितैः ॥१४२।। तावद्वर्ण्यवस्तुनोऽवश्यमेव क्वापि, चलनावस्थानजल्पनादिका क्रिया भवति, ततस्तस्याः क्रियाया इष्टप्राप्ति . रिपूच्छित्तिः, स्पर्धा, पूर्वजक्रम:-एतानि चत्वारि कारणानि क्वापि श्लेषकृतप्रकाशानि यथौचित्यं योजनीयानि ।
इष्टप्राप्तिर्यथा-वर्यो वप्रः, तस्योच्चवर्धनं क्रिया, तस्याः कारणं नभोगङ्गास्नानेन पापापनयनमिष्टं तत्प्राप्तिः ततः परमातङ्गस्पर्शोद्भवं मालिन्यमपनेतुमिव वप्रो नभोगंगायां स्नानार्थमुच्चस्तरां वर्धते स्म ।
वयं कमलं, तस्य जलवासादितपःक्रिया, तस्याः कारणं कामिनीमखौपम्येष्टप्राप्तिः, तत: कमलं १ कामिनी मुखौपम्येष्टप्राप्त्यै जलान्तराकण्ठमग्नं तपः कुरुते ।
वर्ण्यश्चन्द्रः, तस्य शिवशिरःसुरसरित्तीरे निवासः क्रिया, तस्याः कारणं कामिनीमुखौपम्येष्टप्राप्तिः, ततः सुमुखीमुखौपम्यप्राप्त्यै स्थाणोः शिरसि स्थायी सुरसरित्तीरे तपस्वी तपःक्षामो निवसति चन्द्रः ।
वयं यश:, तस्य स्वर्गगमनं क्रिया, तस्याः कारण निजमित्ररावतादिमिलनेष्टप्राप्तिः, ततो निजमित्ररावतोच्च:श्रवोब्रह्महंसशिवशिरोगङगाविष्णपाञ्चजन्यादीनां मिलनायेव नृपयश: स्वर्ग जगाम ।
रिपूच्छित्ति यथा-वो वप्रः, तस्य नभोगमनं क्रिया, तस्याः कारणं स्वर्गिस्पधिमेरुनगाश्रितरविरिपूच्छित्तिः, ततः स्वःस्पर्धिमेरोराश्रयणशीलं रविमिव भूमौ पातयितुं वप्रो नभोगमनं करोति ।
वा हंसाः, तेषां सरःश्रयणं क्रिया, ततो निजगतिस्पर्धिनारीवदनमित्राणि कमलानीव छत्तुं सरः श्रयन्ति हंसाः। बर्यो रविः, तस्योदयः क्रिया, ततो निजसारथिभ्रातगरुडरिपुसर्पसोदराणीव तमांसि छेत्तुं रविरुदयं करोति । अथ स्पर्धा--
वो वप्रः, तस्य नभोगमनं क्रिया, तस्याः कारणं स्पर्धा, ततो विन्ध्यगिरिस्पर्धया तरणिसरणिरोधं कमना इव प्रो नभो व्याप्नोति ।
वयं यशः, तस्य दिग्व्यापनं क्रिया, तस्याः कारणं स्पर्धा, ततो निजप्रभास्पधि सुधादीधितिस्पर्धयेव नृपयशो दिक्चक्रमाक्रामति ।
अथ पूर्वजक्रमः-- वर्यो वप्रः, तस्य पूर्वजो गिरिः, ततो निजपूर्वजगिरिक्रमेणेव वप्रोऽपि नभो रुरोध ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org