________________
२०२
काव्यकल्पलतावृत्तिः
सइंथु इति प्रसिद्धिः । नासिकानकं बाहुर्भुजा शिरास्रसोमीर्वा जीवाप्रासः कुन्तः लकुटो दण्डः । अर्गला भोगल इति प्रसिद्धिः, आषाढ: तापसदण्डः, मुशलं प्रसिद्धं, अरित्रं आउलु इति प्रसिद्धं, मन्थानक: प्रसिद्धः, यपः यज्ञस्तम्भः, तुला बाजूआं इति प्रसिद्धिः, पट्टः पट्टकः, स्तूपः स्वर्दण्डः स्वर्गदण्डकः, निर्मोकः सर्पकञ्चुकः, अध्वा मार्गः, मृणालं कमलनालं, शेषः शेषनागः, स्रग् माला, इक्षुः कुशीकोसि इति प्रसिद्धा । प्राजनं पराणु इति प्रसिद्धिः, धूधुरा इति प्रसिद्धिः, युगं प्रसिद्धं, वेत्रं प्रतीहारदण्डः, कशा ताजणु इति प्रसिद्धा । कूष्माण्ड: कोहलं इति प्रसिद्धः । वायुमण्डलं प्रसिद्धं ।
वर्त्तनं वतरणुं इति प्रसिद्धं, खेलनी सोगठीति प्रसिद्धा, नखभेदिनी नहरणीति प्रसिद्धा, झष: मत्स्यः, शल्यक: शाहजीवः, पर्वारु: ब्रुसडी इति प्रसिद्धिः । अर्करश्मिः इन्दुरश्मिः, नाराचः सर्वलोहमयबाणः । का.क.
वक्त्राण्यलकभालभ्रू नरवाङकाङिधलालाटिकाः । कटाक्षेन्द्रधनुविद्युदर्धचन्द्रहलाङकुशा: ।।१३६।। कुञ्चीमित्राङगुलीतल्पदात्रकन्दुकददण्डका । तडागपालिकुद्दालतारणानि सुखासनम् ॥१३७।। गोपानसी रथी वंशाः शाकच्छेदकखेटके । चन्दनमालबालेन्दुकिंशुकेभाङगुलीरदाः ।।१३८।। श्वपुच्छाश्वमुखे शृङगचञ्चवृश्चिककण्टकाः । करिदंष्ट्रा मयुग्रीवा सिंहकुक्कृटयोर्नखा: ।।१३९।। केसरश्चन्द्रको भग्नकङकणं फणभृत्फणाः ।
पुरोधः करकौपीने केकिकुक्कुटमञ्जरी ॥१४०।। एतेऽन्येऽपीत्यादि । यथा-वर्यो बालेन्दुः, तस्योपमानं दात्रं, दात्रेण लवनक्रिया क्रियते, ततो मानिनीमनोभमिप्ररूढमूलमानलता वितानलपनाय मनोभुवा प्रगुणीकृतं लवित्रमिव बालशशी ।
वर्ष्या · किंशुकाः, तेषामुपमानं कर्तर्यः, ता हि व्याधस्य भविन्त, ततो मदनव्याधस्य प्रतिकाङ्गिनीजनमनोमृगवधादिव रुधिरार्द्राः कर्तर्य इव किंशुकाः ।
वा नखाङकाः, तेषामुपमानं किंशुकानि, ततः कुसुमास्तस्य कामिनीवक्षस्यधर्मचन्द्रबाणाकृतिकिंशुककुसुमश्रेणीव पतितानि नखक्षतानि ।
___वण्यौं भ्रुवौ, तयोरुपमानं मित्राङगुल्यौ, ततो बालायाः कामयौवनाभ्यां परस्परमैन्याय वक्रीकृते मित्राङगुल्याविव ध्रुवौ।
उच्चभद्रासनं वप्रप्रसादाट्टालकालया ।
सतां मनोरथा हस्ती हस्तिशा शाशिलोच्चया: ।।१४१।। एतेऽन्येऽपीत्यादि । यथा-वर्ण्य : प्रासादः, तस्योपमानं हिमाद्रिः, तत: प्रासादे हिमाद्री गझेब पताका । वर्ण्य भद्रासनं तस्योपमानमुदयाद्रिः ततो भद्रासनोदयाद्रौ राजा रविरिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org