________________
काव्यकल्पलतावृत्ति:
२०१
करपत्रं निषङगाडिघतलश्रोणिस्थपाणयः ।
क्षुरप्रशृङगगोक्षुररोहिणीशकटानि च ॥१२८।। एतेऽन्येऽपीत्यादि । यथा-वयं त्रिकोणतिलक, तस्योपमानं रोहिणी, ततो नायिकामुखे त्रिकोण मक्तातिलकच्छलान्निजपतिभ्रमेण रोहिणीव समागता । अथवा स्मरभटेन शिवपराभवादनादतपुष्पबाणेन बालाया भ्रधन: सज्जीकृत्य त्रिकोणतिलकच्छलेन क्षरप्रायधमिव प्रगणीकृतम् । अथवा निरन्तरजनमनोवेधकारिशरपरम्पराक्षेपश्रमातेरपनयनायान्तरान्तरा नीरपानमिव कर्त नायिकात्रिकोणमक्तातिलकच्छलात् मदनेन कान्तिजलापूर्ण करपत्र मिव सीमन्तदण्डे लम्बितम् ।
दीर्घाणि वेणीसीमन्तनासिकाबाहवोऽङगुलिः । रोमाली पृष्ठवंशोरुजङघान्त्रनलिका: शिराः ।।१२८।। मौर्वी धनु: शरप्रासकृपाणलकुंटार्गलाः । आषाढमुशलारित्रयष्टिमन्थानकध्वजाः ।।१३०।। वंशयपतुलापट्टतालद्रुस्तम्भमेढयः । स्तूपकपयशस्तम्भेन्द्रध्वजाहत्पुरोध्वजाः ॥१३१।। स्वर्दण्डच्छत्रदण्डोमिनिर्मोकाध्वाहिनिम्नगाः । मृणालहारशेषस्रग्जटावल्लीद्रुमेक्षवः ॥१३२॥ कुशी प्राजनकं बाहुर्य गवेत्र कशा झषः । हस्तिहस्तरदौ पुच्छं नाडीशृङखलको लिकाः ।।१३३।। दामशैलूकशूलानि करभो नकुलस्तथा । जलूकैर्वाह कूष्माण्डमृदङगा वायुमण्डलम् ।।१३४।। वर्तनं लेखनी काष्ठकरणं नखभेदनी ।
केतकीदलमञ्जयौं नाराचार्केन्दुरश्मयः ।।१३५।। एतेऽन्येऽपीत्यादि । वर्ष्या वेणी, तस्या उपमानं सर्पः, सोऽपि सुधाकुण्डे भवति, ततस्त्रिनेत्रानलदग्धकुसुमायुधसंजीवनवाक्सुधाकुण्डस्य वदनस्य रक्षाभजङ्ग इव वेणीदण्डः । अथवा यौवनस्वयज्वना युवतीहृदयकु डे सदा दीपितस्य मदनानलस्य निर्गता धमोमिरिव णीवल्लरी ।
वर्ष्या रोमाली, तस्या उपमानं मृणालं, तत: शिवसमरदग्धधनुषः स्मरस्य कृते यौवनेन बालरोमावलीच्छलात् सज्जीकृतो मृणाल धनुर्दण्डः। .
वा कृपाणलेखा, तस्या उपमानं यमुना, ततस्त्वदभिहतरणसंमुखनृपतिनिकरै निरन्तरं विध्यमानो मम पिता रविविधुरत्वं गतः , ततः कियन्तमपि कालं विलम्बस्वेति विज्ञापनायैव कृपाणच्छलात् यमुना नृपहस्तं गता। म. टी. सूक्ष्मरक्तानि वृत्तानीति-पूगः क्रमुकः, शोणाश्म पद्मरागरत्न, बन्धूकः बन्धुजीवकः, सूक्ष्मश्यामानि वृत्तानीति --अञ्जनसहिताश्र अतंसीपुष्पं । त्रिकोणान्यथेति दम्भोलिर्वजं, ईशानदग ईश्वरलोचनं । सन्ध्यक्षराणामाद्यवर्ण एकार: । शङ्गाट: त्रिवटुं इति प्रसिद्धः । कामाख्या देवी, निषङ्गः तूणीरः, अंहितलं पादतलं, क्षुरप्रः त्रिकोणबारः, गोक्षुरः गोरवरुकः, रोहिणीनक्षत्रं शकटाकृतिः । दीर्घाणीति -सीमन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org