________________
२००
काव्यकल्पलतावृत्तिः
सुक्ष्मश्वेतानि वृत्तानि मुक्तामलकतारकाः । दाडिमीफलबीजानि दन्तबिन्दुवराटकाः ।।१२३।। करकाक्षिपयोबिन्दुबुद्बुदस्वेदबिन्दवः ।
प्रसनं पिटकं पीलफलं जातीफलं कणाः ।।१२४|| एतेऽन्येऽपीत्यादि । यथा-वाः ताराः, तासामुपमानं मुक्ताः, ता हि समुद्रे शुक्तित: सम्भवन्ति, ततो ज्योत्स्नाम्भःसम्भृतनभोऽम्भोधी लाञ्छनच्छलस्फुटितमुखचन्द्रशुक्तिकुहरनिःसृताः मुक्ता इव ताराः । अथवा ताराण,मुपमानं जलबिन्दवः, ते हि जलाशयादिपु संभवन्ति, ततोऽनवरतभ्र निश्रान्तस्थ रवेः पश्चिमाचलशिखरात प्रदत्तझम्पावशेन तोयनिधेरुच्छलिता नभसि जलबिन्दव इव ताराः । म. टी. अथ गर्भप्रकाशवृत्तानीति-कण्ठिका कांटीति प्रसिद्धाभरणविशेषरूपा, कटको वलयं, अङ्गदानि बाहुरक्षकाः, हस्तसूत्रं हस्तदवरकः, मेखला कटिमेखला, कटिसूत्रं कन्दोरक., जपमालिका घर्घरमालिका घूघरमालेति प्रसिद्धा, परिवेषः परिधिः, कुण्डलता कुंडालु इति प्रसिद्धिः । वृत्तिः वाडि इति प्रसिद्धा, कर्णपाशः कर्णः वाह्यालिः अश्वखेलनभमिः । वागुरा मृगजालिका, चखा (षा)लः यज्ञस्तंभनु कडु इति प्रसिद्धिः । वल्गाचओ कडु इति प्रसिद्धा । उपवीतं यज्ञसूत्रं । सूक्ष्मश्वेतानि वृत्तानीति आमलक: फलं, वराटकाः कपः, करका धनोपलाः, जातीफलं जायफल नामकं । का.क.
सूक्ष्मरक्तानि वृत्तानि नखरत्नेभबिन्दवः ! गजेन्द्रगोपखद्योता: स्फुलिङक्रद्धलोचने ।
पूगशोणाश्मबन्धूकबदरीवरयोः फले ॥१२५।। एतेऽन्येऽपीत्यादि । यथा-वर्ष्या मणयः, तेषामुपमानं रत्नानि, ततो जलधरैर्जलधौ स्फुलिङगा इव मणयः । वा इन्द्रगोपाः, तेषामुपमानं रत्नानि, ततो जलधरैर्जलधेः पीतसरत्नजलजलैः समं वृष्टै रत्नरिव इन्द्रगोपyाप्ता। वा खद्योतास्तेषामुपमानं वहिनस्फुलिंगाः ततो घनघटासङघट्टशतखण्डितविद्युदग्नेः खण्डलवा इव खद्योताः ।
वानि बन्धुजीवानि, तेषामुपमानं शोणरत्नानि, ततो वनलक्ष्म्याः शरत्कालेन क्लृप्तानि माणिक्याभरणानीव बन्धुजीवकुसुमानि ।
सूक्ष्मश्यामानि वृत्तानि जम्बूभृङगकनीनिकाः ।
चुचुक: साञ्जनाश्चेन्द्रनीलौ गजातसोसुमे ।।१२६।। ।। एतेऽन्येऽपीत्यादि । यथा-वानि जम्बूफलानि, तेषामुपमानं साजनाश्रुबिन्दवः, ते दुःखात् स्त्रियो भवन्ति, ततः परवल्लीः स्पृशन्तं मारुतकामकं दृष्ट्वा जम्बूफलतया साजनाश्रुणीव मुक्तानि जम्बूफलानि ।।
वा भ्रमरी, तस्या उपमान कनीनिका, सा हि नेत्रे भवति, ततो वसन्तकामुकं पश्यन्त्या माधवीलताया विस्मेरकुमुमनेत्रान्तर्धमरी कनीनिकेव निश्चला ।
- वण्यों चूचुकौ, तयोरुपमानं भृङगौ, तावपि कमलाश्रयी भवतः, ततो रतिप्रीतिक्रीडाकमलयोः कुचयोः कृतिस्पदी भृङगाविव चचको।
त्रिकोणान्यथ दम्भोलिः शलेणानदृशौ हलम् । सन्ध्यक्षराद्यश्रृङगाटौ कामाक्षी वहि नमण्डले ।।१२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org