________________
काव्यकल्पलतावृत्तिः
म. टी. गम्भीरमध्यवृत्तानीत्यत्र--श्रीभाजनं कुंपल इति प्रसिद्ध, हारक: हारओ इति, मानविशेषभाजनं । सेनिका से इति प्रसिद्धा, पल्ली भिल्लावासः, पालीति मानविशेषभाजनं वा । धूमवर्तकः धूपधाणं इति प्रसिद्धं, कपालं भिक्षभाजनं, पालक पालुं इति प्रसिद्ध, द्य गतिका गबचीति प्रसिद्धा। अथ पिण्डिताकृतिवृत्तानीति पत्र गोल: गोलकः, स्तबको गच्छः, कन्दः कांदु इति प्रसिद्धः, करोटि: मस्तकास्थिकं कुंदं, वृषभस्कन्ध, घटी घटिका फालंकुशी। का.क.
दुष्यं घण्टिकमुष्ट्यंसकरोटिककुदण्डकाः । राह क्षणपिण्डोध: कपिशीर्षघटाः फलम् ।।११५।। गुल्म फालं वयःसाररथाङगा हंसजाहको । मोदक: कलशस्तुम्बकमण्डलुसमुद्गकाः ॥११६। नारगचूतकरुणबिल्वजम्बीरदाडिमाः ।
बीजपूरीनालिकेर्यावित्यादिद्रुफलावलिः ॥११७॥ एतेऽन्येऽपीत्यादि । वो स्तनौ, तयोरुपमानं कुम्भौ, ततः शृङगाररसपूर्णी तटस्थनिष्पन्दलेखाकृतिरोमावलिरम्यौ मुखस्थितचूचुकच्छलेनेन्द्रनीलपिधानी नार्याः कुम्भाविव कुचौ । नार्याः शृङ्गारवल्लेश्चूचुकच्छलनिलीनभृङगौ कुसुमस्तबकाविव कुचौ । रतिप्रीतिभ्यां कामदेवस्य त्रिभुवनराज्याभिषेकाय चूचूकच्छलमुखास्थिताश्वत्थपल्लवी कनककुम्भाविव कुचौ।
वर्ण्यश्चन्द्रः, तस्योपमानं हंसः, ततो नभःकासारे ज्योत्स्नाजलसम्भते लाञ्छनच्छलकलितशैववल्लरीपल्लवो हंस . इव चन्द्रः ।
गर्भप्रकाशवृत्तानि घटीमुकुटकण्ठिकाः । ताडपत्रकटकाङगदा: कङकणमूर्मिका ॥११८।। हस्तसूत्रं नूपुरदग्रक्षारक्षार्थकण्डके । पुष्पलङमेखला हारो रुण्डमालाकपर्दकौ ।।११९।। कट्याः सूत्रगुणौ मौजीजपघर्घरमालिके । परिवेषः कुण्डलनाप्राकारपरिखावृतिः ॥१२०।। कर्णपाशो बाहुपाशो पालिबा ह्रयालिवागुराः । घटकण्ट: कृष्टचापं चषालव्योममण्डले ।।१२१।। दिव्यार्थमण्डलश्रेणीकुण्डलीभृतकुण्डली ।
पर्यस्तिका योगपट्टवल्गोपवीतरश्मयः ॥१२२।। एतेऽन्येऽपीत्यादि । यथा-
वर्यो वप्रः, तस्योपमानं कपर्दः, तस्याधारः शिवः, ततो भुवः शिवमूर्तेः कपिशीर्षमुण्डमालान्वितः कपर्द इव वप्रः ।
वो वप्रः, तस्योपमानं वलयं, तस्याधारो बाहुः, ततो वसुधावध्वा अन्तरोल्लसितनृपसोधवाहुभासितं वलयमिव वप्रः ।
वयों कर्णपाशी, तयोरुपमानं ज्याकृष्टचापे, ततो मदनयौवनाभ्यां जननयनमनोमृगवेध,य सन्निहितकटाक्षबाणे कर्णद्रयमिषेण धनुषी इव कुण्डलिते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org