________________
१९८.
काव्यकल्पलतावृत्तिः
म. टी. अथ चतरस्राद्याकारान प्रपञ्चयन्नाह--चतरस्राणीति व्यञ्जनं वातोपकरणं, कृम्भिकास्तम्भाधारपाषाणकुम्भी, चातुरी चउरीति प्रसिद्धा, पार्थिवमण्डलं चतुर्दिम्राज्यम् । प्रलम्बचतुरस्राणीति स्थंडिल ऋषिशयनस्थानं, तूलिका तलाई इति प्रसिद्धा । पेटा पेटीपट्टः, पाटलकः शय्यापट्टः सेजवट इति प्रसिद्धः । पटो वस्त्रम् । सम्पूर्णगर्भवृत्तानीत्यत्र-तालः काश्य (स्य)तालः, गब्दिका गादीति प्रसिद्धा, कमठः कच्छपः, दलं पत्रं, स्फारा खेटकः, सरावसंपुट: हस्तिकर्णः, कोशिका कोडीउ इति प्रसिद्धा । ............. .... का.क.
छत्रव्यजनचालिन्यो मृदङगपुटपुपका: । घरट्टमण्डको कन्दुरालवाल: सरो मही ॥१०६।। द्वीपः शरावः कंसालकरिश्रवणकौशिकाः । कुलालरथकृष्णानां चक्राणि शाणयन्त्रकः ।।१०७।।
तुला चेलककैवर्तजालावर्तारघट्टकाः । - एतेऽन्येऽपीऽयादि । वर्ण्यः सूर्यः, तस्योपमानमादर्शः, सोऽपि स्त्रीपार्वे भवति, तत पूर्व दिगङगनामुखे पद्मरागपुण्ड्रमिव रविः ।
वर्ण्यश्चन्द्रः, तस्योपमानं छत्रं, तदपि राज्ञो भवति, ततो मदनभूपतेश्छत्रमिव चन्द्रः । अथवा चन्द्रस्योपमानं स्फुरा, सापि सुभटस्य भवति, ततो मदनसुभटस्य स्फुरामण्डलमिव चन्द्रः।
गम्भीरमध्यवृत्तानि नाभिस्थालीगहानदाः ।।१०८।। कुण्डं वाणी श्रुतिः कूपो मुखं गर्भकचोलके । घट: कमण्डलुर्दावा चक्रनाभिरुलूखलः ।।१०९।। कटाहमणिको कुण्डी कम्बुः कुतपपङकजे । चषकं कुम्भभृङगारौ श्रीभाजनाप्यमण्डले ।।११०।। हारकः सेतिका पल्ली करण्डो धूपवर्तकः । कपालकर्परे तुम्बं समुद्गः करको दृतिः ।।१११।। घण्टा शिरस्कं धत्तूरसुमनोभेरिकाहलाः । नालमृणालनलिकाः शरधिर्धमनी घटी ॥११२॥ गापिधानं चङगेरी कुम्पिकालोकनालयः ।।
तितलेापेषकृद्यन्त्र पालकं धूतगतिका ॥११३।। एतेऽन्येऽपीत्यादि । वर्ष्या नाभिः, तस्या उपमानं कूपः, ततः स्तनारघट्टोपरि लुलितरोमालिमालो लावण्यजलपूर्णः शृङगारवनसेचनाय मदनारामिकेण नाभीरूपः कूप इव प्रगुणीकृतः । वर्ष्यानि पद्मानि, तेषामुपमानं चषकानि, ततो जलदेवतानां मधुपूर्णानि चषकानीव पद्मानि ।
पिण्डिकाकृतिवृत्तानि गोलस्तबककन्दुकाः । कुन्देभकुम्भधम्मिल्लनितम्बस्तनमौलयः ॥११४।। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org