SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः अब आकारार्थोत्पत्तिः का. क. अथ आकारेभ्यस्तत्रापि प्रथमं चतुरस्राकारादर्थोत्पत्तये चतुरस्राकारपदार्थसङग्रहो यथा चतुरस्राणि व्यञ्जनं कुम्भिका च पताकिका । चातुरी मञ्चिका सिंहासनं पार्थिवमण्डलम् ।।१०१।। एतेज्येऽपि चतुरस्रपदार्था : परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्थ वर्णादयो गुणा उपमेये रोप्यन्ते । यथा-वयं पार्थिवमण्डलं, तस्योपमानं सिंहासनं, तस्याधेयं राजा, ततः सर्वकार्यकरणक्षमस्थ मन्त्राधिराजस्य सिंहासनमिव पार्थिवमण्डलम् । प्रलम्बचतुरस्रपदार्थसङग्रहो यथा-- प्रलम्बचतुरस्राणि खट्वा स्थण्डिलतूलिका । कपाटपट्टिकापेटापट्टा: फलकपुस्तके ॥१०२।। इष्टका तिलक केतुः परः पाणिः प्रसारितः । प्रशस्तिपट्टिका शय्या पट्टः शकटमञ्चकाः ।।१०३॥ गवाक्षसारफलकं कटद्वारपटादयः । एतेऽन्येऽपि-इत्यादि । वर्ण्य पुस्तकं, तस्योपमानं मञ्जूषा, सापि रत्नस्थानं, ततो धृतकाव्यरसा मञ्जूषेव पुस्तिका। वयं तिलक, तस्योपमानं तूलिका, ततो मदननृपतेर्बालाशरीरसौधोपरि क्रीडाय चतुरस्रमुक्तातिलकच्छलेन विशदप्रभाच्छलोत्तरच्छदा तूलिकेव प्रगुणीकृता । ता तूलिका, तस्या उपमानं चतुरस्रतिलक, ततो गृहलक्ष्म्याश्चन्दनं तिलकमिव तूलिका। वयं ललाटफलक तस्योपमानं प्रशस्तिपट्टिका, तत: कन्दर्पदेवतायतने बालशरीरे कस्तूरिकापत्रवल्लीमिषाक्षरमालिका प्रशस्तिपद्रिकेव ललाटफलकम् । वृत्तपदार्थसङग्रहो यथा-- सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः ।।१०४॥ कपोलकुण्डले तालसूर्यभाजनगुल्थिकाः । झल्लरी कमठः पुण्डु लूना गृहदलस्फुराः ।।१०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy