SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः दिनपरिवृढपुत्रीगर्भनीलारविन्दप्रसृमरमधुपालीपक्षतिप्रख्यकान्तिः । जलशयनशरीरस्फाररोचिः प्रपञ्चच्छुरित्सलिलराशिभ्राजमानाङगयष्टि: ।। . इति कृष्णः । मसृगवसणपङका भ्याडगचञ्चच्चलाक्षीकुचकलशपिधानोद्दामकौसुम्भकान्तिः । तरुणतरणिकान्तिवातसंसर्गरङगत्कमलदलकदम्बप्रायकायप्रभामिः ।। अभिनवरविरश्मिद्योक्तिप्राच्यभूभत् शिखरलदशोकस्मेरपूष्पोपमान: । पतिकुपि मृगाक्षीलोचनप्रान्तरोचिच्छुरितकमलकर्णोत्तंससङ काशकान्तिः ।। ..... ... इति रस्तः । मररिपुपदनिर्यज्जाह्नवीनीरपूरस्नपितगरुडपक्षप्रख्यसंलक्ष्यलक्ष्मीः । .... तरुणकिरणमालिस्फूर्जदंशप्ररोहस्मितकनकसरोजव्यूहतुल्याङगकान्तिः ॥ . जलधरनिकूरम्बाहामधारानिपातस्नपितकनकशैलस्पधिद्धिष्णुकान्तिः । . . तरुणतरमगाक्षीगण्डरोचिःप्रपञ्चच्छरितकनककर्णोत्तंससद्वर्णवर्ण्यः ॥ ..... इति पीतवर्णः । सदृशं सदृशेनोपमेयम् । यथा-- अमरनिकरयाञ्चाविस्फुरत्कामधेनुस्तनगलितपयोवभारती यस्य रेजे । हिमकिरणमयूखबातभिन्नेन्दुकान्तप्रसरदमृततुल्या यस्य वाचो विभान्ति ।। दनुतनजविपक्षक्षुब्धदुग्धाब्धिगर्भोल्लसदमृतसमाना रेजिरे यस्य वाचः । मदनमथनचूडाचन्द्रराचिष्णुगङगालहरिभरसमाना शोभते यस्य वाणी ॥ कपोतलेश्योर्णनाभः शकुनी कर्बरी तथा । वा मण्डूकाः, तेषामुपमानं करुणो रसः, तस्याधारो दुःखिनः, ततो वर्षाकाले चलमण्डूकावलिच्छलेन विरहार्तानां हृदयेभ्य उद्भ्रान्त करुणो रस इव । __बहुवर्णाः शिखिपिच्छेन्द्रचापश्रीदधिचित्रकाः ॥९९॥ वर्ण्यमिन्द्रधनुः, तस्योपमानं शिखि पिच्छं, तस्याधारी गोपकर्णः, ततः कृष्णमेघस्य गोपालता प्रपन्नस्य शिखिच्छिाभरणमिव इन्द्रधनः । उत्कर्षमुपमेयस्य' परिकल्पयितुं सुधीः । विशेषणैः परिष्कारमुपमानस्य कल्पयेत् ॥१०॥ उपमेयस्य शाभातिशयख्यापनाय कयापि युक्त्या विशेषणेरलङकृमुपमानं कुर्वीत । यथा--- सुरनि करकराग्र ग्रमन्थानशैलक्षुभिततरलदुग्धाम्भाधिकल्लोलकान्तिः । हिमकिरणमरीचिव्यूहविभ्राजमानक्षितिधरपतिचूडाजाह्नवी कल्पकान्तिः ।। तुहिन गिरितनूजानम्रभूतेशचूडागलितगगनगङगाधौतबालेन्दुगौरः । गिरिशमुकुटचन्द्रज्योतिरुद्योतमानस्फटिकशिखरिचूडास्पधर्ममानाङगकान्तिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy