________________
१९४
काव्यकल्पलतावृत्तिः
वा सन्ध्या, तस्य उपमानं वन्हिस्तत: प्राणनाथे रवावस्तंगते दिग्वधूभिरनाममयाभि: सन्ध्याच्छलेन प्रगणीकृतो वन्हिरिव । अथवा चक्रवाकहृदयेभ्यो विरहाग्निज्वालाकला. इव सन्ध्याच्छलेन नभोव्यापी बभूव ।
वा जपा, तस्या उपमानं रत्नानि, तत: शरत्कालेन नवलक्ष्म्या जपाकुसुम उछलेन रत्नानीव प्रदत्तानि ।
वयों बालार्कः, तस्योपमानं कुक्कुटशिखा, तत. प्रा::किरणावामतिर्मानावर्णवनपक्षतेरुदयगिरिकुक्कुटस्य शिरःस्थितो रविः शिखाशोमां लभते । पिङगलवर्णादर्थोत्पत्तये पिङगलवर्णपदार्थसङग्रहो यथा---
पीतानि ब्रह्मसूर्येन्दुगरुडेश्वरदृग्जटाः ।।९२।। पद्मनाभो गुरुविष्णोश्चक्रं वीररजोगुणाः । गिरिजागस्तिरिन्द्राश्वा द्वापरो द्वापराच्युतः ।।९३।। भयानकरसो वैश्यवर्णधर्मपितृव्रजाः । ऋषभप्रमुखास्तीर्थकराः पोडशवासराः ॥९४।। सुराद्रिः काञ्चनं कांस्यं रीतिः किञ्जल्कवल्कले। परिव्राजकवस्त्राणि हरितालमनःशिले ॥९५।। हरिद्रा रोचना हीरो गन्धकं दीपचम्पके ।
कणिकारं सुवर्णाजं रम्भाकेतकशालयः ॥९६।। म.टी. अथ पीतपदार्थसङग्रहविशेषमाह--
पीतानीतिः । तत्र गुरुः वृहस्पतिः, विष्णोश्चक्र वस्त्रं च, गिरिजा पार्वती । द्वापरविष्णु: वासरो दिवसः । कांस्थ कांसू इति प्रसिद्धम् । रीति: पित्तलं, किजल्कं केसरं, वल्कलं वृक्षछल्लि. । तापसवस्त्राणि परिव्राजकवस्त्राणि कणिकारी वृक्षः, रथाङ्गः चक्रवाकः, इति सुगमम् । का.क.
हरयो रथाङगनामा वानरः सारिकाक्रमौ । एतेऽन्येऽपि पीतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते। यथा--वर्यो रविः, तस्योपमानं कोकः, तस्याधार: सरः, ततो नभःसरोवरे. रविश्चक्रवाक इव ।
वाः कोकाः, तेषामुपमानं परागः, तत: सरसि स्मेरसरसिजपरागस्तबका इव चक्रवाकाः ।
वर्ण्यः परागः, तस्योपमानं कुङ्कुमारम्भः, तदाधारो नारीशरीरं, ततः काननलक्ष्या वसन्तप्रियागमे परागप्रसरपरिष्वङगमिषेण कुङकूमलेप इव चक्रे ।
वो रविः, तस्योपमानं गरुड., तस्य क्रिया सविधः, ततसिमिरसाणां गरुड इव रविः ।
अथ धूसरादिभ्योऽर्थोत्पत्तये धूसरादिपदार्थसङग्रही यथा--
धूसरा रेणुमण्डूककरभा गृहगोधिका ॥९७।। गर्दभो मषको दुर्गाकाककण्ठकपोतका: । पुलकोहिः शिखिपिच्छाधोभागः करुणो रसः ।।९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org