________________
कामकल्पलतावृत्तिः
१९३
रवरुवर्णादर्थोत्पत्तये रक्त पदार्थसङग्रहो यथा--
शोणानि भौमभौमाश्वाः शङखतक्षकपन्नगाः ।। ८४ ।। पद्मप्रभवासुपूज्यौ जिनेन्द्रौ नवभानुमान् । नेता नेता हरिः क्षत्रवर्णधर्मपितृव्रताः ।। ८५ ।। सन्ध्योल्कावह्नयो विद्युत्ताने विद्रुमकुङकूमे। पद्मरागसुरारक्तचन्दनालक्तकद्रवाः ॥८६॥ दृगन्ताधरजिह्वामृङमांससिन्दूरधातवः । हिङगुलं मधुरत्नानि स्फुलिङगा दन्तिबिन्दवः ।।८७।। नखेन्द्रगोपखद्योताः कुक्कुटस्य शिखा तथा । चकोरसारसपारावतकोकिलदृष्टयः ॥८८॥ कियाहो, हंसचञ्चङधी शुकमर्कटयोमुखम् । कुसुम्भकिशुकाशोकजपाबन्धूकपाटलाः ॥८९।। पल्लवा दाडिमीपुष्पं बिम्बीकिम्पाकयोः फले । गुजा कोकनदं रौद्ररसो रागघटेष्टिकाः ॥९०।। ताम्बूलरागो मञ्जिष्ठा वज्रक्षतनखक्षते । तेजोलेश्या पद्मलेश्या क्रोधः क्रुद्धवपुर्मदः ॥९१।।
म. टी. अथ नीलवर्णपदार्थसङग्रहविशेषमाह--
नीलानीति । तत्र वधो ग्रहविशेष , कर्कोट सर्पविशेष:, वाय: समीरः, नीलको रत्नविशेष: नीलूओ इति प्रसिद्धिः। शैवाल सेवालं, रविवाजिनः सूर्याश्वाः, इत्यादि स्पष्टम् ।
अथ रक्तपदार्थसङ्ग्रहमाह
शोणानीति । तत्र भौमो मङ्गलो, भौमाश्चा मङ्गलाश्वाः, शङ्खतक्षको सर्पविशेषी, नवभानुमान् बालसूर्यः, त्रेताहरिः त्रेतायुगकृष्णः, अलक्त' एवालक्तको रसः, दगन्त' लोचनप्रान्तः, असग रुधिरं, धातुः गैरिकः, दन्तिाबिन्दुः इन्द्रगोपः, कीटक: खद्योत: खजुओ इति प्रसिद्धः। चकोरादीनां लोचनानि कियाहः रक्ताश्वः । जपा जासूवृक्ष इति प्रसिद्धिः । बन्धूकः बिफुरीओ वृक्ष इति प्रसिद्धिः । पाटलः पाडल वृक्ष इति प्रसिद्धिः । बिबी गोलीवृक्ष इति प्रसिद्धिः। कोकनदं रक्तोत्पलं, क्रुद्धवपुर्महः क्रोधवच्छरीरतेजः, पक्वफलश्रेणिः इत्यत्रोदाहरणादिकं स्पष्टम् ।
वश्याकर्षणयोर्ध्यानं सपाकफलमण्डली । एतऽन्येऽपि रक्तपदार्थाः परस्परमौचित्यादूपमानं क्रियन्ते । उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा--वाः किंशुकाः, तेषामपमानं कौसुम्भवासांसि, ततो वसनप्रियसमागमे वनस्थल्या निरन्तरस्मेरिकिशकश्रोणिमिषेण कौसुम्भवासांसि परिहितानि ।
वा किङकेलिः, तस्या उपमानमनुरागः, तता वसन्तानुरक्तया वनलक्ष्म्या किङके लिच्छलेन मूर्तोऽनुराग इव प्रकटीचके। अथवा वनथियो मखमण्डनं कुडकुमसाबक इव किङकेलिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org