________________
काव्यकल्पलतावृत्तिः
गजमदः, सुरा मदिरा, साञ्जनाश्रुः । वनशाखी बनवृक्षः, गवलं महिषशृङ्ख, तालस्तालवृक्षः, तापिच्छस्तमालवृक्षः, दलं पत्रं, इन्दीवरं कृष्णकमलं, नीली गलीति प्रसिद्धा। खलो दुर्जनः, अजिनं चर्मकृत्या, राक्षसी ख़ुगाहः कृष्णवर्णाश्वः । गोलांगलमुखं वानरमुखम् । चटककण्ठः मयूरकण्ठश्च । दुर्गापतिः देवु इति प्रसिद्धः। कृष्णसारः कालीहार इति प्रसिद्धः । गोमयं छगणं। नेत्रपक्ष्म पांपणि इति प्रसिद्धिः । अक्षिकनीनिका कीकीति प्रसिद्धा । इत्येतेषामुदाहरणानि सुबोधानि ।
1.क. एतेऽन्येऽपि कृष्णपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते। उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा-वा स्त्रीवेणी, तस्या उपमानं कृपाणः, कृपाणस्याधारो वीरः, ततो मदनवीरेण भवनिष्फलीकृतपञ्चशरेण स्त्रीवेणीमिषात् कृपाणदण्ड इव प्रगुणीकृतः ।
वयं तमस्तस्योपमानं कज्जलं, कज्जलाधारो दीपस्तत ओषधीदीपसमदभूतैः कज्जलरिव तमोभिर्मलिना दिशः । अथवा रविवियोगार्तानां दिग्वधूनां साजनाथसलिलानीव तमांसि ।
वर्ण्य इन्दुकलङकस्तस्योपमानं नीलपद्म, तस्याधार सरस्ततो नभारण्ये सुधाकरस्तत्र लाञ्छनच्छलादुत्तंसो नीलोत्पलम । अथवा यामिनीकामिन्या मुखमिव चन्द्रस्तल्लाञ्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा लाञ्छनस्य पापमुपमानं पापस्य दुष्कृतादुत्पत्तिः; ततो रविवियोगातपद्मिनीनां लक्ष्मीहरणपातकादिव चन्द्रस्य लाञ्छनच्छलान्मुहुर्त पातकमिव दृश्यते। तथा इन्दुकलङकस्योपमानं कस्तूरिका, तस्या आधारो रूप्यकच्चोलक, ततो यामिनीकामिनी स्वमण्डनार्थं चन्द्ररूप्यकच्चोलके लाञ्छनव्याजाकस्तूरिकापङकमिव प्रगुणीचकार । अथवा इन्दुलाञ्छनस्य विषमपमानं, तत आत्मानं क्रूरस्वभावेन निविण्णं भ्रातृस्वभावस्वीकरणाय लाञ्छनच्छलात्कालकूटं चन्द्रमिव सेवते। अथवा यामिन्याः स्वपतेश्चन्द्रस्य चक्षुर्दोषापनयनाथ लाञ्छनव्याजात्कज्जलाडक कृत इव।
वयं नीलोत्पलं, तस्योपमानं लाञ्छनं, ततः कामिनीमुखचन्द्रे नीलोत्पलं लाञ्छनमिव ।
वो धम्मिलस्तस्योपमानं राहुस्ततः कालवशादिव गतवर: सुमुखीमुखपार्श्वे चन्द्रभ्रमाद्धम्मिलच्छलेन राहुरिव
समागतः।
वर्ध्या श्रीकण्ठकण्ठरुचिः, तस्या उपमानं तमः, ततस्त्वं हे प्रभो, सर्वेषामपि सामान्य प्रभुः, ततः किमस्मद्वैरिणं चन्द्र शिरसा धत्से इति विज्ञप्तयेऽन्धकारमिव कण्ठरुचिच्छलादीश्वरमाश्रितम् । अथवा कण्ठरुचिच्छलान्निजमुतललाटेन्दुमिलनाय जलधिरिव समागतः। अथवा कण्ठरुचिच्छलादगङगा स्पर्धयेव यमना ईश्वरं समागता । नीलवर्णादर्थोत्पत्तये नीलपदार्थसङग्रहो यथा--
नीलानि बुधकर्कोटौ मल्लिपाश्वौं जिनेश्वरौ । बीभत्सरसवायू च नीलको नीलवानरः ।। ८२ ।। शुको नीलोत्पलं दूर्वा प्रियङगुदलशैवले । वंशाङक (कु? )रो मरकतेन्द्रनीलो रविवाजिनः ।। ८३ ।।
काचो मुद्गस्तथा नीललेश्या बालतृणादयः । एतेऽन्येऽपि नीलपदार्थाः परस्य रमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा-वर्ण्यः श्रीपार्श्वजिनस्तस्योपमानं नीलोत्पलं, तस्याधारः सरः, ततो यस्य मनःसरसि श्रीपावो नीलोत्पलीभवति तस्य लक्ष्मीन दूरे।
बर्या शुकावली, तस्या उपमानमिन्द्रनीलमणिमाला, ततः शरदि नभालक्ष्म्या इन्द्रनीलमणिमालेव शुकाबली।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org