SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः दष्टबा कोपादिव वल्लीनां स्वेदविन्दव इव पुष्पाणि । अथवा पुष्पाणां तारका उपमान तारकाणामाधार आकाशस्ततो वनाकाशे पृष्पाणि तारका इव । अथवा रवितापत्रस्ता: शोतलवनोपान्तमामिश्रास्तारा इव पुष्पाणि । अथवा स्वोपकारकरान्धकारभ्रान्त्या श्यामलवनमपाश्चितास्तारा इव पुष्पाणि । यथा-वर्ण्यः प्रासादः, तस्योपमानं हिमाचलः, तस्य परिवारो गङगा, ततः प्रासादो हिमाचलस्तत्र गङगेव पताका। यथा-- वर्ण्यः प्रासादः, तस्योपमानं धर्मः, तत: प्रासादो धर्मो लोकपातकवैरिणो जित्वा पताकाच्छलान्मौलेरुपरि पटीं चालयति। अथ कृष्णवर्णादर्थोत्पत्तये कृष्णपदार्थोपसङग्रहो यथा-- कृष्णानि केशव सीरिची रचन्द्राङकराहवः ॥७१॥ विन्ध्याञ्जनाद्रिसुव्रतनेमिनाथौ जिनेश्वरौ । धूमकेतुर्महापद्मानन्तनागौ यमासुरौ ।। ७२ ।। सर्पराक्षससूर्याश्वशिवकण्टघनाशनिः । कलिः कलिहरिद्वैपायनरामधनञ्जया: ।। ७३ ।। शूद्राणां वर्णो धर्मश्च पितरश्च तमोगुणाः । काली देवी द्रुपदजा राजपट्टो विदूरजम् ।। ७४ ।। विषाम्बरजुहूशस्त्रागुरुपापतमोनिशाः । धूमकज्जलकस्तूरीपङका बहुलदुदिने ॥७५ ।। मषीमदसुरावाद्धियमुनासाञ्जनाश्रवः ।। मुद्गमाषतिला मुस्तामरिचे वनशाखिनौ ॥७६ ।। गवलं तालतापिच्छदलेन्दीवरवल्लयः । नीली जम्बूफलं गुजामुखाङ्गारी खलाजिने ।। ७७ ।। मारिदुर्वचनालीकखलाः कृत्या कुकीर्तयः । मारणध्यानदुर्ध्यानकृष्णलेश्या विपद्व्यथा ॥७८ ।। कूर्मो वराहखट्वाङ्गमहिषा: पिकषट्पदौ । गोलाङ्ग लमुखं हस्ती कण्ठश्चटकके किनोः ।। ७९ ।। काकः पिपीलिका दुर्गापतिः खञ्जनकण्टिका । मकरः कृष्णसारस्तु भिल्लाश्छाया च गोमयम् ॥८०।। रामारोमावलीनेत्रपक्ष्मभ्र रोममूर्धजाः । रसावद्भुतशृङ्गारौ कटाक्षाक्षिकनीनिका ॥८१ ।। म. टी. अथ कृष्णानीति-केशवो विष्णः, शीरी चीरं-शीरं हलमस्यास्तीति शीरी बलभद्रस्तस्य वस्त्रम्। चन्द्रलाञ्छनं विन्ध्याद्रि रञ्जनाद्रिश्च । श्यामौ धमकेतुर्ग्रहविशेषः। महापद्मः पद्मद्रहः । अनन्तनागः शेषनागः, शच्यः इन्द्राण्यः, शनिब्रहविशेषः, कलिः कलिय गः, कलिहरिः, कलियुगः। कृष्णः द्वैपायन: तापसविशेषः। धनञ्जयः अर्जुनः, कालीदेवी कालिका, द्रुपदजा २ (द्रौपदी, राजपट्टो रत्नविशेपः, विदूरजं वैर्यरत्नं, कह अमावास्यावहल: कृष्णपक्षः, दुदिनं मेघजं तमः, मदो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy