________________
काव्यकल्पलतावृत्तिः
सेराहशर्कराशालिदुग्धगङ्गासुधा जलम् । निर्झरः पारदो हंसबककैरवकम्बवः ॥ ६८ ।। लतागृहं पुण्डरीककपालश्वेतकुम्भकाः । छत्रसिंहध्वजश्वेतगुञ्जाशुक्तिकदिकाः ॥६९ ।। मुक्ताकुसुमनक्षत्रदन्तस्वेदाम्बुबिन्दवः ।
सूर्यन्दुकान्तकरकसिकताकणसीकराः ॥७० ।। म. टी. शभ्राणीति-भारती सरस्वती १, धर्म: पुण्यं २, शेष. शेषनागः ३, ईश ईश्वरः ४, वरुण: पश्चिमदिकस्वामी ५, बलो बलभद्रो, नारदः, ऋषिः । कृायगाच्युतः कृतयुगस्य नारायणः । सत्त्वं सत्त्वगणः, उशनाः शुक्र: चन्द्राश्वः उच्चैश्रवः, इन्द्राश्च: ऐरावणः, चन्द्रज्योत्स्ना शरदः मेघः । सौधं नृपमन्दिरम् । मन्दारद्रुर्मन्दारवृक्षः, हिमाचलः, रम्भागर्भः, कदलीगर्भः पारिजातः कल्पद्रुमः, रोधः, लोदः, करम्भः करम्बु इति प्रसिद्धः । रजतं रूप्यं, निर्मोकः सर्पकञ्चकः, चीरं वस्त्रं, डिण्डीरः फैनः, चूर्णः चंतु इति प्रसिद्धः । अभ्रक: आभूआं इतिः प्रसिद्धः । केतक: केवडु इति प्रसिद्धः । खजूरी वक्षः, वासः श्रीखण्डवासः । भस्मरक्षा मणालं, कमलनालम् । पलितं पली इति प्रसिद्धिः । हार इति मक्ताहारः। ऊर्णनाभः कोलीयावडु इति प्रसिद्धिः । तन्तुः सूत्रतन्तुः, ऊमिः कल्लोलः, स्वर्दण्ड: स्वर्गस्य दण्डः, स्वर्गदण्ड: सेराह., श्वेताश्च: निर्झरः नीझरण इति प्रसिद्धिः । पारदः पारतः, लागहमर्णनाभगह, पुण्डरीकं श्वेत कमलं, कपालं मस्तककपरं, सूर्यकान्तः इन्दुकान्त:, शीकरावातप्रेरिजलकणाः इति । शेषं स्पाटम् ।
___ मालतीमल्लिकाकुन्दयूथिका कुटजादयः । एते भारतीप्रभृतयोऽन्येऽपि श्वेतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य वर्णादयो गणा उपमेये रोग्यन्ते ।
यथा---वा भारती, तस्या उपमानं गङगा, गङगाया: शुक्लो वर्णः, परिवारो हसपद्मानि, आधारों धूर्जटिशिर:, क्रिया पापहारित्वम् । ततो भारती कुन्देन्दुसुन्दरद्यतिः पद्मश्रिया ससेविता शिवोत्तमाङगलालिता गङगेव सेवकपापहारिणी जयति ।
यथा-वस्तारकास्तासामुपमानं मुकास्तासामाधारोऽब्धिस्ततो नभोऽम्भोधिमध्ये तारा मुक्ता इव ।
यथा-वाः काशास्तेषामपमान हास्यं, हास्यं च प्रियसङगतौ भवति, तती नवहंससमागमे शरद्वध्वा हास्यप्रकाशा इव काशाः ।
यथा-वयं हास्यं, तस्योपमानं ज्योत्स्ना, तस्या आधारश्चन्द्रस्ततो मुखचन्द्रस्य ज्योत्स्नेव हास्यश्रीः । यथा--वर्ण्य यशस्तस्योपमानं हास्य, हास्यस्य हर्षस्ततो रिपूजय हृष्टस्य नपखड्गस्य हास्यमिव यशः ।
यथा--वर्ण्य यशस्तस्योपमानं, कर्पूरः, कर्पूराधारः समुद्गकः, परिवाराऽङगारस्ततस्त्रैलोक्योदरसमुद्गके यशः कर्पूर इव, तन्मध्ये नभोऽङगारलेश. ।
यथा--वास्तारास्तासामुपमानं पुष्पाणि, तेपामाधारा लता, ततस्तमावल्ल्याः पुष्पाणीव ताराः ।
यथा--वानि पुष्पाणि, तेषामपमानं स्वेदबिन्दवः, ते सात्विकभावाद्धर्माच्च भवन्ति, ततो दक्षिणानिलस्य स्पर्शादद्भङगस्पर्शाद्वसन्तस्पर्णाद्वा वल्लीनां स्वेदविन्दव इव पुष्पाणि, परस्परसंघट्टधर्मादिव आत्मवशं भङग परवल्लीगतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org