________________
काव्यकल्ललतावृत्तिः
१८९
वादिकानामकेन द्वाभ्यां वा त्र्यादिकैरथ ।
सुधीरुत्पादयेदर्थमौचित्याद्वर्ण्यवस्तुनि ॥५९ ।। वर्ण्यवस्तुनो वर्गाकारादीनां मध्यादेकेन केनापि काभ्याञ्चिद् द्वाभ्यां वा कैश्चित् त्रिभिश्चतुर्भिः पञ्चभिर्वा भाबरर्भः पूर्णतां नेयः ।
वर्णाकारक्रियामुख्यैः सदृशं वस्तु वस्तुनि ।
संयोजयेद्यथौचित्यमुपमारूपकादिभिः ॥६० ।। वण्] वस्तुनि शुक्लादौ शुक्लादि, चतुरस्रादी चतुरस्रादि, कम्पनादौ नर्तनादि इत्यादि सदृशान् भावानुपमया, रूपकेण अलङकारान्तरर्वा योजयेत् ।
वादिभिरुपमानीकृतवस्तुप्रथितवर्णमुख्यगुणाः ।
उपमेये सादृश्यात् श्लेषादौचित्यतो योज्याः ।। ६१ ।। म. टी. अथार्थोत्पत्तिप्रकारं प्रपञ्चयन्नाह--यद्यपि प्रयभस्तबके सामान्येन वर्गाकारादिप्रतिपादित, परमत्र विशेषमाह-- सम्बन्धिनः ब्रह्मकाश्यपेऽन्यत्र मूर्यस्य ब्रह्मा पितामह. १, काश्यपः पिता २, शनिः पुत्रः ३, यमुना पुत्री४ । आदिशब्दा दन्यपि ग्राह्याः । अपरे सूर्या इत्यत्रान्ये एकादश सुर्या ग्राह्याः । संपकिण इत्यत्र सम्पकिणः समीपवतिनः, रथ: स्यन्दनः, रथ्या अश्वाः, अरुण सारथिः । वालि[ल]खिल्यः ऋषिः । आदिशब्दात् षष्ठि ६० सहस्त्रा ऋषयो ग्राह्याः । सेवका भाविन इत्यत्र-भावोऽस्त्येषामिति भाविनः, सूर्यदर्शनकारकाः सूर्यदर्शनमन्तरा भोजनं न कुर्वन्तीत्यर्थः । . का. क. श्वेतादीनां श्वेतादयः, चतुरस्रादीनां चतुरस्रादयः, आधारपरिवारादीनामाधारपरिवारादय औचित्यादुपमानं क्रियन्ते । उपमानीकृतवस्तुनो वर्णादयो गणा: सादृश्येन श्लेपेण वा उपमेये रोप्यन्ते । पूर्ववर्णेभ्यः, तत्रापि प्रथमं शुक्लवर्णादयोत्पत्तये शुक्लपदार्थसङग्रहो यथा--
शुभ्राणि भारतीधर्मशेषेशवरुणन्दवः । चन्द्रप्रभसुविध्याख्यौ जिनेन्द्रौ बलनारदौ ।। ब्राह्मणानां वर्णो धर्मः पितरश्च कृताच्युतः । सत्त्वं कृतयुगं शान्तहास्यवीररसास्तथा ।। ६२ ।। शुक्लध्यानं शुक्ललेश्या पुण्यं सिद्धिशिलोशनाः । चन्द्रश्चोचैःश्रवःशक्रगजज्योत्स्नाशरद्धनाः ॥६३ ॥ प्रासादसौधकैलासमन्दारद्रुहिणाद्रयः । रम्भागर्भपारिजातलोधकक्कोलपादपाः ॥६४ ।। कार्पासकाशक: रकरम्भा रजतं यशः । निर्मोकचीरडिण्डीरचन्दनं हसितं हिमम् ।। ६५ ।। दधिभक्षणचूर्णास्थिखटिकास्फटिकाभ्रकाः । रेणुः केतकखयोः कटाक्षा वासभस्मनी ।। ६६ ।। मृणालपलिताम्भोदधारेन्दुकरचामराः ।
हारोर्णनाभतन्तर्मिस्वदण्डेभरदा गुणाः ॥ ६७ ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org