________________
१८८
कान्यकल्पलतावृत्तिः
॥४.२ ॥
वार्थोत्पत्तिस्तबकः
अथार्थोत्पत्तिप्रकाराः प्रकाश्यन्ते
वर्णाकारक्रियाधाराधेयसम्बन्धिबन्धवः । सम्पकिद्वेषिमित्राणि पतिपत्नीशसेवकाः ।। ५७ ।। इन्द्रियानन्दभुत्यादिप्रदं तदपहारि च ।
एषामप्यरिमित्रादीत्यादि वयेऽर्थबीजकम ।। ५८ ।। सर्वेषामेव वस्तूनामेते वर्णादयो भावा एको द्वौ व्यादयो वा निश्चिताः । वर्णः शक्लादिः, आकारश्चतुरस्रादिः, क्रियाश्चलनादिकाः, आधारो वक्षादेः पृथिव्यादि:, आधेवं पथिव्यादेव क्षादिः, सम्बन्धिन: पितपत्रादय., बन्धवो भ्रातरः, सम्पकिण: पार्श्वस्थाः, द्वेषिणो रिपवः, मित्राणि सुहृदः, पतिर्वरयिता, पत्नी भार्या, ईश: स्वामी, सेवका आराधकाः, इन्द्रियानन्दप्रदमेकस्य चक्षरादेः, सर्वेषां वेन्द्रियाणां प्रीतिप्रदं, भत्यादिप्रदं लक्ष्मीवस्त्रस्थानतेजःप्रभतिप्रदं, तदपहारि इन्द्रियानन्दापहारकं भूत्याद्यपहारकं च ।
तथा---एषां वर्णादीनामपि यथासंभवं ये रिपत्रो मित्रादयः, तेऽपि तथा वर्णाकारक्रियाणां सादृश्यादेव वस्त्वन्तराणि द्विषो मित्राणि च ।
तथा--आधारस्य द्विषो मित्राणि, आधेयस्य द्विषो मित्राणि, सम्बन्धिनां द्विषो मित्राणि, बन्धूनां द्विषो मित्राणि, सम्पकिणां द्विषो मित्राणि, द्वेषिणां द्विषो मित्राणि, पयद्विषो मित्राणि, प्रत्युद्विषो मित्राणि, पल्या द्विषो मित्राणि, स्वामिनां द्विषो मित्राणि, सेवकानां द्विषो मित्राणि, इन्द्रियानन्ददायिनां द्विषो मित्राणि, भत्याद्यपहारिणां' द्विषो मित्राणि ।
___आधारादीनामपि सादृश्यावस्त्वन्तरैः सह शत्रुत्वं मित्रत्वं च कल्पनीयम् । इत्यादिशब्दाद्वर्ण्यवर्णादिद्वेषिमित्राणां देषिमित्रादि ।
तथा-वर्ण्यस्य शिशिरत्वमुष्णत्वं मधुरत्वं कटुत्वं सुगन्धत्वं, कुरूपत्वं सुरूपत्वं, मधुरध्वनित्वं कठोरध्वनित्वं, सूक्ष्मत्वमित्यादयोऽन्येऽपि भावा वर्ण्यवस्तूनि विविधार्थानामुत्पत्यर्थं बीजरूपा जायन्ते । यथा---वर्यो रविस्तस्य पीतो वर्णः, आकारो वृत्तः, क्रिया: प्रकाशनरूपाः, आधारो नभः, आधेयं हस्तकमलादि, सम्बन्धिनो ब्रह्मकाश्यपशनियमुनायाः, बन्धवोपरे सूर्याः, सम्पकिणो रथरथ्यारुणवालखिल्यादयः, द्वेषिणो राहशुक्रशनयोध्वान्तदैत्याश्च, मित्राणि चन्द्रमंगलगुरवः, कमलचक्रकाद्याश्च ; रविरेव प्रभाकमलिन्योः पतिः, पल्यः प्रभाकमलिनीरत्ना देव्यः, ईशः पितामहत्त्वात् ब्रह्मा, सेवका भाविनः, इन्द्रियानन्दप्रदा मित्राद्याः, शोभाप्रदाः दिवसाद्याः, इन्द्रियानन्दहरा विपक्षायाः, तथा वर्ण्यस्य रवेर्वर्णस्य द्विषो मित्राणि सदृग्वर्णानि, आकारस्य द्विषो मित्राणि सदृगाकाराणि, मित्रस्य कमलस्य द्विषचन्द्राद्याः, मित्राणि चक्रायाः, सम्पकिणो हंसाद्याः, आधारो जलं, आधेयं भृङगाद्याः । एवं परस्परमेकैकस्य भावस्य यथासंभवमपरे भावा निरीक्ष्याः । एवं कमलमित्रद्वेषिणश्चन्द्रादेरपि वर्णादीनि विलोक्यानि । १. भत्यादिदायिनाम्--ला. १. २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org