SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८६ काव्यकल्पलतावृत्तिः इदमपि वपरीत्येन यथा शमभास्करविस्मेरकलाकमलिनीवनः ।। कलाकादम्बिनीलीलानत्यज्जनमन:शिखी । जनस्वान्तशिखिकीडाकलाकादम्बिनीभरः ।। उल्लासिसत्यजीमूतप्रीतविष्टपचात्तकः । लोल (क ? ) चातकसम्प्रीतिकरसत्यपयोधरः विवेकरजनीनाथसंबधितशमाम्बुधिः ।। शमसागरविस्तारविवेकरजनीकरः ॥ अथ द्विपङक्त्याधाररूपकं यथा-- गणहंसमनोहारिप्रतिज्ञावाहिनीरयः । कीर्तिध्वजाञ्चलभ्राजिमानमत्तमतङ्गजः ॥ यशोमौक्तिकाविस्तारितारदानपयोनिधिः । सत्कीर्तिनर्मदाभ्राजिधैर्यविन्ध्यमहीधरः ।। प्रतापतपनोद्योतिगुरुशौर्यनभोऽङ्गणः विक्रीडत्कीर्तिशीतांशुतारदानपयोनिधिः देवभक्तिमरुत्कुल्यापूर्णमानससागर. धैर्यहर्यक्षवर्यश्रीविलसद्गुणकाननः ॥ गुणमुक्तागणश्रेष्ठविवेकतटिनीपतिः ।। कलासुरनदीरम्यस्फारधैर्यहिमाचलः ॥ । । । इदमेव द्विपङक्त्याधाररूपकं वैपरीत्येन द्विपङक्त्याधेयरूपकं भवति । यथा-- प्रतिज्ञावाहिनीपूरक्रीडदगणस्तिच्छदः । अहङकारमहाहस्तिक्रीड-कीर्तिध्वजाञ्चलः ।। दानपाथोनिधिक्रीडत्यशोमुक्तासमुच्चयः । धैर्यविन्ध्याचलोत्सङगरङत्सत्कीर्तिनर्मदः ।। गुरुशौर्याम्बरक्रोडकीडत्तेजो दिवाकरः । दानरत्नाकरक्रोडविक्रीडत्कीर्तिचन्द्रमाः ।। स्वान्ताम्बुधिविशद्देवभक्तिदेवनदीरयः । गुणकाननविक्रीडत्तारधैर्यमृगाधिपः ॥ विवेकाम्बुधिविक्रीडद्गणमुक्तासमुच्चयः । धैर्यशैलपरिक्रीडत् कीर्तिगङ्गारयो नृपः ॥ अथ त्रिपंक्तिमिश्ररूपकम् । यथा--- सन्ध्यासिन्धुयशोम्भोजक्रीडद्गुणसितच्छदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy