SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति: १८५ अथ स्त्रीलिङगशब्दा रोप्याहा:-- ज्योत्स्ना नदी विध्रुकला सरभी पताका वल्ली वनी कमलिनी दयिता मुधा श्रीः । कादम्बिनी सुरभिवृष्टिसुराविमुक्ताताराकरेणुकलिकालहरीकदल्यः ॥५६ ।। एते. काव्यद्वयपदार्थी रन्यैरपि पूर्वोक्तसन्धाहंकृत्यादिकायचतुयष्टयोक्ता अन्येऽपि गुणा दोषाश्च नपुंसका नपुसकैः, पुंल्लिङगाः पुंल्लिङग , स्त्रीलिङगैः स्त्रीलिङगाः यथौचित्यं भेद्यादिरूपकचतुष्टयविधिना योज्या: । भेद्यं यथा-- कोपपावकपर्जन्यः । तोष्यं यथा--विवेका भोजभास्करः। आधारो यथा--गणरत्नपटोराशिः । आधेयम् यथा-- गुणाम्बरनिशाकरः । नपुंसकलिङगपुंल्लिङगशब्दाः शौर्यशमादयः, स्त्रीलिङगा रोप्याही भवन्ति । यथा-- शौर्यलक्ष्मीलतामेघ: शमश्रीकौमुदीविधुः । महःशोभाब्जिनीसूर्यो दानस्थितिसुधाम्बुधि: ।। स्त्रीलिङगाः शब्दाः सन्धाहंकृतिप्रभूतयः पूरःस्थितैः प्रपञ्चविस्तारप्रसरप्रायशब्दैनपुंसकलिङगा रौप्यारे भवन्ति । यथा-- सन्ध्याविस्तारपाथोधिविधरेष क्षमापतिः । विद्याप्रसरवृक्षाब्दः प्रज्ञोत्कर्षनभोरविः ।। एत्तच्चतुर्विधमपि द्विपंक्तिरूपकं भवति । प्रथमं भेद्यं द्विपंक्तिरूपकं यथा-- प्रतिज्ञावाहिनीपूरपरिप्लुतरिपुद्रुमः । इदमपि रूपकं वपरीत्येन यथा-- द्वेषिवृक्षपरिप्लाविप्रतिज्ञावाहिनीरयः । प्रतिज्ञाचन्द्रिकापुरम्लानवैरिमुखाम्बुजः ।। द्वेषिवक्त्राम्बुजद्रोहिप्रतिज्ञाचन्द्रिकारयः ।। शौर्यदावानलप्लष्ट: द्वषिकीतिलतावनः । द्वेषिकीर्तिलताद्रोहिशौर्यदावहताशनः ।। धैर्यसूर्यपरिम्लानः वैरिकैरवकाननः । वैरिकैरवकान्तारः ग्लानिकृधैर्यभास्करः ।। शमस्रोतस्विनीपूरः शान्तक्रोधहताशनः । क्रोधदावानलच्छेदिश्रमस्रोतस्विनीरयः ॥ कलाकादम्बिनीशान्तद्विषतेजो हुताशन. । द्विपत्तेजोदवच्छेदिकलाकादम्बनीभरः ।। विद्यास्रोतस्विनीवाहभिन्नवादिमहीम्हः । वादिभूरहविद्रोहिविद्याकूलङकषारयः अथ द्विपंक्तितोष्यरूपकं यथा कलाकमलिनीबोधशमवासरनायकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy