SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १८४ काव्यकल्पलतावृत्तिः नदीसरःप्रभृतीनां जलस्थानानामम्भोजमाधेयम् । नीतिस्रोतस्विनीपद्भः, राजा राज्यसरोऽम्बुजं इत्यादि । नभोब्धिशिवभालानां चन्द्रादाधेयं, यथा--कुलाकाशे निशानाथो, ज्ञानाब्धी हिमदीधितिः इत्यादि । आकाशस्य रविराधेयमहीपालकुलाकाशप्रकाशनदिनेश्वरः इत्यादि । धराद्रिवनादीनां वृक्षं आधेयं, यथा----संसारभूमिकल्पद्रः, कुलाद्री देवपादपः, राज्यारामरसालद्रः इत्यादि । आधेयं केवलः । ५० ।। मौले: किरीटमाल्यमाणिक्यतिलकादय आधेयम् । अत्र मोलिना केवलेन रूपकरहितेन आधेयं कोटीरादिरूपकं भवति, यथा--भूपालमौलिकोटीरमाल्यमाणिक्यं इति, तथा कुलतिलक इति । वृक्षस्य लतायाश्च पत्रपुष्पफलशाखामूलकन्दपक्षिजातिप्रभृतय आधेयम् । पर्वतस्य नदीवृक्षरत्नमृगसिंहपुलिन्दगजकिन्नरादय आधेयम् । नद्याः पद्मभ्रमरहंसचक्रवाकमत्स्यादय आधेयम् । समुद्रस्य चन्द्रसुधावडवाग्निरत्नशङखश्रीमुक्तातरङगमत्स्यविद्रुमफेनविष्णुविषादय आधेयम् । चन्द्रस्य ज्योत्स्नाकलाकलङकादय आधेयम् । आदित्यस्य तापकिरणादय आधेयम् । आकाशस्य चन्द्रार्कतारागङगाप्रभृतय आधेयम् । कामिन्याः सीमन्तकुङ्कुमस्तबकलीलाकमलादर्शकुण्डलकङकणकेयूरहारमजीरस्मितकटाक्षधम्मिल्लवेणीकुचमुखकरचक्षुर्नासादय आधेयम् । वनस्य सरसीवापिकाहंसचक्रवाकवृक्षपर्वतभ्रमरगजसिंहसहकारादिवृक्षपुष्पस्तबकपुलिन्दकतस्करमृगादय आधेयम् । गजस्य आदर्शसिन्दूरभूषणाङकुशवरत्रागुडकोष्टकपताकायोधमखपटकरकरडककुम्भस्थलदन्तकर्णपादादय आधेयम् । मण्डपस्य कुम्भलतास्तम्भ चन्द्रोदयचन्दनमालामुक्तावचूलपुष्पप्रकारादय आधेयम् । रोहणस्य रत्नान्याधेयम् । कैलासस्य शिवगौरीमानसधनदादय आधेयम् । गृहस्य स्तम्भकपाटद्वारादय आधेयम् । अथारोपाश गुणा:-- सन्ध्याहंकृतिशौर्यसाहसमहो धीरत्वशक्तिश्रियो विद्यादानशरण्यवाक्शमकला सत्यौचिती भक्तयः । न्यायस्थैर्यविवेककोतिविनयप्रज्ञाप्रतिष्ठादयाज्ञालावण्यसुह्रद्गभीरगुरुतासौभाग्यशोभोद्यमा: ।। ५१ ।। विचाराचारसन्तोषज्ञानधर्मतपःक्षमाः । सौजन्यौदार्यवैराग्यब्रह्मचर्यगुणार्जवाः ॥ ५२ ।। उपकारेन्द्रियान्यस्त्रीविरतित्यागसंगमाः सौम्यमार्दवशौचत्वसत्त्वानि विषयोज्झनम् ।। ५३ ।। एते सन्धादयो गुणा राजादेर्यथौचित्यं वर्ण्यन्ते । अथ दोषा:-- मायाभीदम्भदुष्कर्मलोभशोकमदक्रुधः । रागसंसाग्दौर्जन्यप्रमादाज्ञानमन्मथाः ।। ५४ ।। एते मायादिका दोषा नीचजनस्य भेद्यरूपकेण उत्तमस्याऽपि औचित्येन स्थाप्यन्ते । पूर्वोक्ताः सन्धादिका गुणा अपि वैपरीत्येन दोषा भवन्ति ।। ___ अथ रोप्याः शब्दा., षु (पु? )न्नपुंसकलिङगपदार्थाः चैत्या ङ्गवृक्षगजमेघमृगाङकभानुव्योमाग्निसिन्धुहरिदीपकरत्नकुम्भाः । चक्राङ्गचातकचकोरमयूरचक्रपुंस्कोकिलावनसरोऽम्बुजमन्दिराणि ।। ५५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy