SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८२ काव्यकल्पलतावृत्तिः वनादिति पदं दवे अम्बुदे भुवि सिंहे च योज्यम् । भेद्यं रूपकं यथा-- ध्वान्ताहिविषनागाब्धिशैलबक्षधनाग्नयः । रक्षःपङकादयो भेद्या रूपकोक्त्यारिरूपकैः ।। ४७ ।। यथा ध्वान्ते रविचन्द्ररत्नदीपका:, सणां गरुडनकुलमयरजाङगलीमन्त्रवादिनः, विषस्य नीलकण्ठामते, हस्तिनां सिंहाङकुशवालानस्तम्भादिकाः, समद्रस्यागस्त्यप्रलयानलवाडवपरशरामरामाग्नेयबाणतरीसेतुहनमन्मन्दराद्रयः, गिरीणां वज्र, वृक्षस्य लतायाश्च दवानलवायनदीरयहस्तिविद्युत्पातकुठाराः, मेघस्य वातवर्षात्ययौ, अग्नेर्जलमेघौ, रक्षसां रामकृष्णौ, पङकस्य शरदागमादित्यतापजलानि। आदिशब्दाद्रवेः राहुमेधागमहेमन्तकालदिनात्ययाः, चन्द्रस्य राहुश्यामपक्षप्रतिपत्प्रभातरविदिनमेघाः, प्रदीपस्य वात्यासर्पदर्शनस्नेहत्रटिदशाक्षयफत्कृतिमरुद्वस्त्राञ्चलानिलाः, नदीप्रवाहस्य ग्रीष्मातपः, महिषासुरस्य चण्डी, गजासुरत्रिपुरान्धककामदक्षाध्वरादीनां शिवः, मधुदैत्यचाणूरपूतनाकैटभकंसकेशिमुरराहुहिरण्यक शिपुबाणकालियाहिनरकबलिशिशुपालशाल्वगरुडादीनां विष्णुः, प्रलम्बासुरयमुनाजलादीनां बलदेवः, मगस्य सिंहब्याप्रौ, मत्स्यमकरादीनां कैवर्तः, वातापिनोऽगस्तिः, रात्रेः प्रभातं, घूकतारेन्दुदीपौषधीचौरकुमदचकोरावश्यायजलादीनां रविः, कमलचक्रवाकतमसां चन्द्रः, तुलस्य पवनः, धर्मस्य व्यञ्जनं वायुः, वायुदुग्धदीपमण्डूकानां सर्पः, विन्ध्यस्यागस्त्यः, पद्मस्य हिमवर्षागजाः, हंसानां मेघः, अन्धकारस्य रविः, खे: राहः, राहोविष्णुः, पङकस्यातपः, आतपस्य जलदः, जलस्य वातः, वातस्य सर्पः, सर्पस्य गरुडः, गरुडस्य विष्णः, वल्ल्याः गजः, गजस्य सिंहः, सिंहस्य शरभः, शरभस्य जलदो हन्ताः । म. टी. अथ रूपकनिर्वाहविधिरिति येष पूर्वार्धकृतरूपकं उत्तरार्द्धन समर्थितमिति निर्वाहविधिः । अथ भिन्नरूपकविधिरित्यत्र भेद्यादिभ्यो भिन्नमिति ।।छ।। का.क. तोष्यं रूपकं यथा-- वनपद्माब्धिचक्राङ्गचक्रचातकषट्पदाः । पिककेकिमुखास्तोष्या रूपके मित्ररूपकैः ।। ४८ ।। वनानां मेघवसन्तागमकुल्यौषधीशारामिकाः, पद्मस्यादित्यशरद्वसन्ताः, समुद्रस्य चन्द्रग्रीष्मौ, हंसादीनां शरदागमः, चक्रवाकादीनां रविः, चातकानां मेघः, षट्पदानां पद्म, कोकिलानां वसन्तः, मयूराणां मेघः। मुखशब्दात् चकोरजननेत्रचन्द्रकान्तानां चन्द्रः, घूकताराचौरकुलटौषधिरक्षसां तमस्विनी, सूर्यकान्तदिनकमलिनीनां रविः । .. आधाररूपकं यथा-- स्वगणैर्भ नभोऽम्भोधिनदीवननगादयः । रूपकंस्थैः स्युराधारा वनपर्वतादीनां भूराधारः, यथा-गुणकाननभूर्नुपः। तारारविचन्द्रादीनां नमः, यथा-गुणतारानभोदेशः । लक्ष्मीरत्नसुधाफेनविष्णुमत्स्यकल्लोलविद्रुममुक्तामकरादीनां समुद्रः, यथा-सद्गुणश्रीमहोदधिः, गुणरत्नाम्बुधिनूप इत्यादि । कमलहंसचक्रवाकादीनां नदी, यथा-गणाम्भोजमरुत्कूल्या, यशोहंससरोवरं, इत्यादि । द्रमपर्वतमगसिंहादीनां वनं, यथागुणद्रुमवनं नृपः, मानपर्वतकाननमित्यादि । रत्नवंशनदीसिंहद्रमादीनां गिरिः, यथा--गणमाणिक्यरोहणः, कीर्तिगङगाहिमाचल: । आदिशब्दाद्गङगादेवदारुकतुरिकाहिमचमरीमख्यानां गणानां हिमाद्रिः, गजानां नर्मदाया विन्ध्यः, चन्दनदक्षिणानिलानां मलयाद्रि:, मक्तानां ताम्रपर्णी, रत्नानां रोहणाद्रिः, देवकल्पद्रुममन्दारपारिजातकहरिचन्दनसन्तानकनन्दनवनचिन्तामणिकामधेन्वैरावणस्वर्णतारादीनां मेरुपर्वतः, अलकामानसशिवगौरीमुख्यानां कैलासः, किजल्कभृङगयो पद्म, पिकङगयो: सहकारः, कुसुमपल्लवशाखाफलच्छायापक्षिलतादीनां द्रुमः, देवकल्पद्रुममन्दारंपारिजातकहरिचन्दनमन्तानका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy