________________
काव्यकल्पलतावृत्तिः
१८१
तथाहि
उपमैव विनेवादि रूपकं वदनं विध: । इयमेकस्योपमानोपमेयत्वे त्वनन्वयः ॥३७ ।। मुखं मुखमिवेयं तु स्मरणं स्मृतियोगतः । प्रियामुखस्य सस्मार प्रियः पूर्णेन्दुदर्शनात् ।। ३८ .। ससन्देहस्तु किं योगे किंमुखं किं सुधाकरः । इयं नेदं किन्त्वादिकयोगतोऽपह नुतिर्मता ॥३९ ।। नेदं मुखं शशी किन्तु स्युरपह नुतिवाचकाः । ठलाकृतिशरीरार्थमुख्या: शब्दा यथा तथा ।। ४० ।। त्रिमार्गामिषतो व्यापत्त्वत्कीतिर्जगतां त्रयम् । इयं भेदे द्वयोर्व्यतिरेको मुखं शशी समौ ॥ ४१ ।। आद्यं निर्लाञ्छनमियं प्रतिपत्तुभ्र मे भवेत् । भ्रान्तिमान् पीडितश्चक्रो मुखं प्रेक्ष्य शशिभ्रमात् ।।४२।। एवं भवन्त्युपमाया बहुरूपाः प्रवृत्तयः ।।
अन्तस्थरूपकोत्प्रेक्षाप्युपमोपक्रमाद्भवेत् ॥४३ ।। यथा--
पल्लवैवरागेव सकटाक्षेव षट्पदैः । हसतीव स्मितैः पुष्पैः वसन्तागमने वनी ।। ४४ ।। उत्प्रेक्षाद्योतका शङके मन्ये नूनमिव ध्रुधम् ।
जाने किलादयो ज्ञेयाः प्रायेणेयं क्रियोद्भवाः ।। ४५ ।। म. टी. स चकार चकोराणामित्यत्र मद्मषयोविपर्ययो ज्ञेयः । स सखीनी[नि त्यत्र पूर्वार्द्ध तोष्यं अपराद्धे भेद्यमिति तोष्यभेद्ययोरुपमा। अशोभिष्टेत्यत्र पूर्वार्द्ध आधारः, अपराद्धे आधेयमित्याधाराधेययोरुपमामखम् । मुखमिवेत्यत्र अनन्वयालंकारः स्यात् । स च यत्रोपमेयस्य पृथग्भूतमपमानं नास्ति, किन्तु उपमेयमेवोपमानं क्रियते, तत्र भवति । इयं उपमा इति सर्वत्र कथनीयम् । प्रियामुखस्य सस्मारेत्यत्र स्मरणालंकारः। किं मुखं किं सुधाकर इत्यत्र सन्देहालंकारः । नेदं मुखं शशी किन्तु इत्यत्रापनुत्यलंकारः । मुखं शशीसम इत्यत्र । व्यतिरेकालकारो यथा-मुखं शशिसम, शशीमखसमं इति । भ्रान्तिमानित्यत्र भ्रान्तिमानलंकारः। पल्लवैर्नवरागेवेत्यत्र अन्तस्थरूपकोत्प्रेक्षालंकारः। वनीवनमित्यादि सुबोधं । कोपपावकपर्यन्य इत्यत्र पावको भेद्यः पर्यन्यो भेदकः । विवेकाम्भोजभास्कर इत्यत्राम्भोज तोष्यं भास्करस्तोषक इत्यादि । का. क. क्रियाप्रपञ्चनं क्रियास्तबकतो ज्ञेयम् । उपमारूपकयोरनेकालंकारबीजत्वादुपमा पूर्वप्रपञ्चिता। रूपकं प्रपञ्च्यते, यथा, रूपकं चतुर्धा भवति-भेद्यम्, तोष्यम्, आधारम्, आधेयम् ।
वनादवे भवेद्भेद्यं रूपकं तोष्यमम्बुदे । भुष्याधारस्तथाऽऽधेयं सिंहे वर्ण्यविशेषतः ।। ४६ ।।. ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org