SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतातिः प्रफुल्लं पद्मिनीपद्म प्रेङखत्षट्पदपडिक्तभिः । कान्तामखमिवाभाति विलोलालकवल्लिभिः ।। इत्यादि। उपमावाचकानां विपर्ययाद्यथा-- मुखं भाति यथाम्भोज भात्यम्बजमिवाननम् । अम्भोज वा मुखं भाति मुखं पद्मनिभं बभौ ।। स्मिताम्भोजसुह्रद्वक्त्रं स्मितपद्मद्विषन्मुखम् । मुखं पद्मप्रतिच्छन्दं मुखं स्मितसरोजवत् ।। मुखं कमलकल्पं तत् पद्मदेश्यं प्रियाननम् । पद्मदेशीयमास्यं ते भाति पद्ममखी प्रिया।। पद्मन स्पर्धते वक्त्रं पद्म जयति ते मुखम् । मुखमम्भोरुहं द्वेष्टि मुख पद्मानुकारकृत् ।। मित्रीयति मुखं चन्द्रः पद्मीयत्यनिलो मुखे। पङकेरुहायते वक्त्रं पङकेरुहति तन्मुखम् ।। आननं तव पूर्णेन्दुदर्श पश्यामि भामिनि । पूर्णेन्दोरिव दर्शनं पूर्व कर्मणि चोपमाने णम् । पूर्णेन्दुमिव दृष्ट्वेत्यर्थः । मुखं पूर्णेन्दुविद्योतं सुदति द्योतते तव ।। पूर्णेन्दुनेव द्योतनं पूर्व कर्तरि च णम्, यथा पूर्णेन्दुना द्योत्यते तथा द्योत्यत त्यर्थः । धर्माणां विपर्ययाद्यथा-- कलाभिः सकलाभिः स पूर्णेन्दुरिव भासते। समुदं सुहृदामिन्दुः कुमुदानामिवाकरोत् ।। स चकार चकोराणामिवेन्दुमुदथिनाम् । भूमीन्द्रोऽभूषयद् भूमि तमीमिव तमीपतिः ।। तोप्यभेद्याधाराधेय भेदाभिन्ना तथोपमा ।।३५ ।। तोष्यभेदाद्यथा स सखीन् तोषयामास चक्रानिव दिवाकरः । स द्विषः शोषयामास पङकानिव पतिस्त्विषाम् ।। अशोभिष्ट स भूपृष्ठे नभसीव नभोमणिः । कलानां निलयः सोऽभूभासां भासां विभुर्यथा ।। तोष्यादिप्रपञ्चनं रूपकाभ्यासे करिष्यते । एवं लप्तोपमा-मालोपमा-रशनोपमा-उत्पाद्योपमा-कल्पितोपमा ज्ञेयाः। उपमेयोपमाद्यास्तु यथालक्षणमभ्यसेत् । उपमायां हि सिद्धायां बह्वलङकारसिद्धयः ।। ३६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy