________________
काव्यकल्पलतावृत्ति:
१७९
हस्तिहस्तपविस्तम्भार्गलादण्डाश्च वक्षसः । शिलाकपाटौ यानस्य प्रमत्तोक्षगतिः पुनः ।। ३३ ।। एककेनापि धर्मणोपमानं बहुधा भवेत् ।
धर्मा वर्णक्रियाकाराधाराधेयादयो मताः ।। ३४ ।। वर्ण्यस्य राजादेवर्णादिमध्यादेकैकेनापि धर्मेण इत्यादिरुपमानमनेकधा भवति । एक एवार्को बहुधोपमानं यथा--
नवार्क इव रक्तोऽयं, तमोभेदी स भानुवत् । सवृत्तः सवितेवायं, कुले भात्येष खेऽशवत् ।। आदित्यवत्प्रतापी स: सद्दिनः स दिनेशवत् । वसुभृत्स यथा सूर्यः, स्मेरपद्मः स सूर्यवत् ।। अभ्यासः स्याद्विभक्तीनामुपमानोपमेययोः ।
उपमावाचकानां च धर्माणां च विपर्ययात् ।। ३४ ।। विपर्ययात्सर्वत्र सम्बध्यते । विभक्तिविपर्ययादभ्यासो यथा
स विपक्षान् प्रचिक्षेप तमःस्तोममिवार्यमा । द्विषस्तं नाभियुध्यन्ते ध्वान्तोद्भदा रवि यथा ।। रविणेवान्धकाराणि तेन चिक्षिपिरे द्विषः । द्रान्ति दुर्जनास्तस्मै घूका इव दिवाकृते ।। तत्रसुः शत्रपस्तस्माद् घूका इव दिवाकरात् । तपोवद्रिपवस्वस्तास्तस्यार्कस्येव तेजसा ।
रवाविवोदिते तत्र शत्रवो ध्वान्तवद्गताः ।। षट्पदी। म. टी. इमान्यपि स्त्रीपुरुषयोरुपमानानि यथोचितं ज्ञेयानि । पुरुषस्योपमानविशेषो यथा-स्कन्धस्य वृषभस्कन्धः १ १ महिषस्कन्ध २। बाह्वोः शेषनागः १ हस्तिहस्तः २ पविर्वजं ३ स्तम्भः ४ अर्गला ५ दण्डश्च ६ । हृदयस्य पर्वतशिला १ कपाटं २ । यानस्य प्रमत्तवृषभगतिः १ इति । एकैकेनापि धर्मेणोपमानं बहुधा भवेदित्यत्र एक एवार्को बहुधोपमानं यथा । नवार्क इव रक्तोऽयमित्यत्र वर्णधर्मः, तमोभेदीत्यत्र क्रियाधर्मः, सद्वृत्तः सवितेवेयमित्यत्राकारः, धर्मकुले भात्येष खेंशुवदित्यत्राधारधर्मः, सद्दिनः सदिनेशवदित्यत्र सत् प्रधानं दिनं यस्य स तथा । सूर्यः कथम्भूत: ? सद्विद्यमानं दिनं यस्मात् स तथा । वसुभृत् स यथा । सूर्य इत्यत्र वसु द्रव्यम् । पक्षे किरणानि च बिभर्तीति वसुभृत् । स्मेरपद्मः स सूर्यवदित्यत्र पद्मा लक्ष्मीः । पक्ष कमलानीत्यतेषु आधेयधर्मः इत्यादयोऽन्येऽपि ज्ञेयाः । द्रुसुन्तीति द्रोह कुर्वन्तीति शेषं सुगमं । धर्माणां विपर्ययाद्या कलाभिः सकलाभिस्स इत्यत्र कलामुदोविपर्ययोऽर्थभेदश्चिन्तनीयः । का. क. उपमानोपमेययोविपर्ययाद्यथा, उपमानं यद्भवति तदुपमेयं क्रियते
विजयी विद्विषोऽजैषीद्भास्वानिव तमोभरम् । अध्वंसत रविवन्तिं विजयी विद्विषो यथा ।। ललितालकवल्लीभिर्भासते भामिनीमुखम् । ललल्लीनालिमालाभिनलिनी नलिनं यथा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org