________________
काव्यकल्पलतावृत्तिः
उपमानोपमेयत्वं पर्यायेण द्वयोर्भवेत् ।
उपमेयोपमा मुखवदिन्दुरिन्दुवन्मुखम् ॥१३ ।। म. टी. अथार्थसिद्धिप्रताने पूर्वमलङकाराभ्यास प्रपञ्चयन्नाह
उपमेति-उपमानोपमेययोहा मनोहरं, साधर्म्यमुपमोच्यते । सैकादशधा । तत्र धर्मोपमावाचकयोः शब्दयोः प्रतिपादने उपमानोपमेयय क्ता पूर्णोपमा कथ्यते । यथा--'शशीवास्यं मुदं दत्ते' इत्यत्रास्यं मुखं, मुदं हर्ष, दत्ते। क इव ? शशीव चन्द्र इव । यथा शशी मुदं दत्ते तथेदमपि । शशीति उपमानं इवेति पदेतोपमा। आस्यमपमेय, मदामितिपदेन धर्मः । चतुर्णामेकत्र प्रतिपादनं पूर्णोपमेति ।२।
उपमानोपमेयधर्माणां मध्यादेकस्य द्वयोस्त्रयाणां वा लोपे लुप्तोपमा कथ्यते । तत्रोपमानलोपे यथा-'रम्यं मुखमिवास्ति नः' इत्यत्र नः मखमिवान्यत् रम्यमस्ति इव । यथा अमुक इत्युपमानाभावादुपमानलुप्तोपमा। धर्मलोपे यथा-शशीवास्यमित्यत्र धर्माभावाद्धर्मलुप्तोपमान् । धर्मापमानयोलपि यथा--
कुसुमं मालतीतुल्यं न भृङ्गो लभते भ्रमन् । इत्यत्र भृङ्गः कुसुमं न लभते न प्राप्नोति । कथम्भूतम् । मालतीतुल्यं मालतीसदृशम् । मालतीकुसुमस्य उपमानस्य लोपात् धर्माभावाच्च द्विलप्तोपमा ४ । धर्मे वाद्युपमानानां लोपे यथा-हरिणलोचना-हरिणलोचने इव चञ्चले लोचने यस्या: सा, इत्यत्रोपमानव व धर्माभावात् त्रिलुप्तोपमा ५ । एकस्मिन्नपमेये बहपमानयोगादभिन्नधर्मेण भिन्नधर्मेण वा मालोपमा भवेत् यथा--
अनयेनेव नृपता धाष्टर्येनेव कुलाङ्गना।
कार्पण्येनेव कमला कला गर्वेण दूष्यते ।।१।। कला गणाभिमानेन दूष्यते । कला उपमेयं , नृपतादि बहुपमानयुतम् । तत्राभिन्नधर्मेणोपमानानि अनयेनान्यायेन इव । यथा नृपता भूपतित्वं दूष्यते इव । यथा धाष्टपैन कुलवधू इव । यथा कार्पण्येन कृपणभावेन कमला लक्ष्मी अत्र दूष्यते इति । धर्मोऽभिन्न: सर्वत्रेति ६ । पीयूषमिवेत्यत्र सतामुत्तमानां वचनविस्तर इत्युपमेयम् । तत्र भिन्नधर्मेणोपमानानि यथा । वचनविस्तरः कयम्भूतः ? सुस्वादुः । किमिव ? पीयूषमिव । स्वादुत्वं यथा पीयूषे वचनविस्तरे तथैवास्ति पुनर्वचनविस्तरः । कथम्भूतः ? विबोधकृत। क इव ? भास्वानिव । पुनः कथम्भूतः ? तत्त्वनिष्णातः । क इव ? ज्ञानीव । अत्रापि सुस्वादुत्वविबोधकर्तृत्वादिभिन्नधर्मा ज्ञेया इति ७ । यत्रोपमेयमपमानत्वं याति, यथोत्तरं भिन्नधर्मेणाभिन्नधर्मेण वा सा रशनोपमा प्रतिपद्यते । यथा- साधोधीर्वदिति - साधो: सत्पुरुषस्य, विद्या धीवत्तता। विद्या उपमेयं उत्तरपादे उपमानत्वं याति । एवमग्रेऽपि । अत्र भिन्नधर्मेणोपमानानि यथा-विद्यावद्दोष हूत् क्रिया। यया विद्या दोषहृत् तथा क्रिया क्रियावत् । प्रीतिकृद्वाणी यथा प्रीतिकृत् क्रिया तथा वाणी वाणीवत् कीर्तिरुज्ज्वला, यथा वाणी उज्ज्वला तथा कीतिरिति ८ । यस्यासीदिति अभिन्नधर्मेण यस्य राज्ञो वित्तं विमलमासीत् । शास्त्रवत् वित्तवन्मनो विमलं, मनोवद्दानं विमलं, दानवत् यशो विमलं, विश्वत्रयी मुदे हर्षायासीत् ९ तथा । कल्पितोपमा यथा--
उपकण्ठस्थ वक्षोजयुग्ममस्या मुखं बभौ ।
सहस्रपत्रं पार्श्वस्थरथाङ्गमिथुनं यथा ॥१॥ का. क. अथाभ्यासार्थमुपमावाचका उपमानानि धर्माश्च प्रपञ्च्यन्ते---
यथेववेत्यव्ययानि तुल्यमित्रारिवाचिनः । प्रतिबिम्बाद्याश्च शब्दा वतिकल्पमुखास्तथा ।। १४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org